पृष्ठम्:रामायणमञ्जरी.pdf/४२७

पुटमेतत् सुपुष्टितम्
४१८
काव्यमाला।



तेषु प्रवर्धमानेषु राक्षसेषु तपोवने ।
आययौ पितरं द्रष्टुं श्रीमान्वैश्रवणः स्वयम् ॥ १३० ॥
तं दृष्ट्वा पुष्पकारूढं निवासं सर्वसंपदाम् ।
दशग्रीवं समभ्येत्य जननी विस्मितावदत् ॥ १३१ ।।
एष पुत्र तव भ्राता विभवो मूर्तिमानिव ।
कुबेरस्तपसा भाति तिग्मांशुरिव तेजसा ॥ १३२ ॥
भ्रातृत्वे वत्स तुल्येऽपि श्रीमानेष त्वमीदृशः ।
आत्माधीनस्य तपसः फलमेता विभूतयः ॥ १३३ ॥
इति मातुर्वचः श्रुत्वा सानुजो दशकन्धरः ।
जगाम गोकर्णतटं तपसे कृतनिश्चयः ॥ १३४ ॥
ग्रीष्मे पञ्चाग्निसंतप्तः शीते सलिलमध्यगः ।
दशवर्षसहस्राणि कुम्भकर्णोऽभवद्गती ॥ १३५ ॥
ऊर्ध्वबाहुशिरः सूर्यन्यस्तचक्षुर्विभीषणः ।
दशैवाब्दसहस्राणि तपश्चक्रे प्रसन्नधीः ॥ १३६ ॥
दिव्ये वर्षसहस्रेऽथ प्रयाते प्रथमं शिरः ।
निराहारः स्वयं छित्वा जुहावाग्नौ दशाननः ॥ १३७ ॥
एवं सहस्रैर्वर्षाणां नवभिनव निश्चलः ।
हुत्वा शिरांसि दशमं स शिरश्छेत्तुमुद्ययौ ॥ १३८ ॥
ततः पितामहोऽभ्येत्य देवैः सह सविस्मयः ।
तपःफलं वरं वीर गृहाणेति तमभ्यधात् ॥ १३९ ॥
सोऽवदत्सुरगन्धर्वदैत्यकिन्नरभोगिनाम् ।
अवध्योऽहं तव वरात्तृणं मे मानुषादयः ॥ १४० ।।
इत्युक्ते दशकण्ठेन तथेत्युक्त्वा प्रजापतिः ।
स्वेच्छारूपं ददौ तस्मै शिरसां चोद्भवं पुनः ॥ १४१ ॥
ततो वरं गृहाणेति प्रेरितः पद्मजन्मना ।
धर्मे मे रमतां बुद्धिरित्युवाच विभीषणः ॥ १४२ ॥


१. 'ध्वः स्याम्' शा..