पृष्ठम्:रामायणमञ्जरी.pdf/४३

पुटमेतत् सुपुष्टितम्
३४
काव्यमाला।

विसृष्टा प्रययुस्तेन सर्वे तूर्णं दिशो दश ॥ ४०२ ॥
अथ प्राप्ते मुनिगणे विश्वामित्रतपोबलात् ।
यथोक्तमवदञ्छिष्यास्तमेत्य महसां निधिम् ॥ ४०३ ।।
भगवन्मुनयः प्राप्ता वशिष्ठतनयान्विना ।
महोदयं च दर्पान्धं तदुक्तं श्रूयतां विभो ॥ ४०४ ॥
स याज्यो यत्र चण्डालः क्षत्रियो यत्र याजकः ।
ब्रह्मर्षयो वयं तत्र कथं यज्ञसभासदः ॥ ४०५ ॥
अहो नु ब्राह्मणाः सर्वे महाविप्लवकारिणा ।
कल्पान्तेनेव गिरयो विश्वामित्रेण पातिताः !! ४०६ ॥
शिष्यैरित्युक्तमाकर्ण्य कौशिकः कोपकम्पितः ।
वशिष्ठपुत्रानशपन्निःश्वसन्सुमहोदयान् ॥ ४०७ ॥
मृत्युदग्धाः श्वमांसादाः सप्तजन्मशतानि ते।
मुष्टिका नाम विकृताः प्रभविष्यन्ति निर्घृणाः ॥ ४०८ ॥
महोदयश्च दुर्वृत्तः प्रयास्यति निषादताम् ।
इत्युक्त्वा सत्यसंकल्पो विरराम महातपाः ॥ ४०९ ॥
तद्भयादभ्युपगते तस्मिन्यज्ञे महर्षिभिः ।
ऋत्विङ्मणिहितारम्भः पूर्णो विधिरवर्तत ।। ४१० ॥
आहूता यज्ञभागाय नाजग्मुर्देवता यदा ।
कुपितः श्रुवमुद्यम्य तदा मुनिरभाषत ॥ ४११ ॥
राजन्मे पश्य तपसो बलमद्भुतकारिणः ।
सशरीरो दिवं गच्छ सहसा मम तेजसा ॥ ४१२ ॥
इत्युक्तमात्रे मुनिना दिवमाचक्रमे नृपः ।
प्रदीप्तमन्त्रतपसां किमसाध्यं महात्मनाम् ॥ ४१३ ॥
दृष्ट्वा त्रिदिवमारूढं त्रिशङ्कु त्रिदशेश्वरः ।
अधःशिराः पतेत्युक्त्वा हुंकारेणेत्यपातयत् ॥ ४१४ ॥
ततस्त्रि शङ्कुर्निपतंस्त्रायस्वेत्यभ्यधान्मुनिम् ।
अत्रैव तिष्ठ तिष्ठेति तमूचे कौशिकः क्रुधा ॥ ४१६ ॥