पृष्ठम्:रामायणमञ्जरी.pdf/४३४

पुटमेतत् सुपुष्टितम्
४२५
रामायणमञ्जरी ।


स पौलस्त्यपुरीं गत्वा दूतः प्राप्य विभीषणम् ।
यथायुक्तं निवेद्यास्मै विवेशास्थानमन्दिरम् ॥ २१७ ॥
कुवेरगौरवात्तत्र संप्राप्तकनकासनः ।
स प्रणम्य दशग्रीवं जगाद जगतां हितम् ॥ २१८ ॥
आह त्वां भ्रातरं प्रीत्या देवो वैश्रवणः स्वयम् ।
श्रूयतामवधानेन श्रुत्वा सद्भिर्विचार्यताम् ॥ २१९ ॥
इमा धर्मद्रुमोद्भूता विपुलाः फलसंपदः ।
नापुण्यवद्भिर्लभ्यन्ते विजयव्यञ्जनाः श्रियः ॥ २२० ।
काकतालीययोगिन्यः सर्वस्यैव विभूतयः ।
लब्धानां रक्षणे त्वासां विरलः कुशलो जनः ॥ २२१ ॥
कीर्तयः पुण्यशीलस्य सदाचारस्य संपदः ।
विद्याप्रज्ञाप्रगल्भस्य भवन्ति स्थिरयौवनाः ॥ २२२ ।।
स्पृहणीया जगत्यस्मिंस्तस्यैव प्रभविष्णुता।
निर्भयं सर्वभूतानि यं समाश्रित्य शेरते ॥ २२३ ॥
धिक्तस्य निरपेक्षस्य विभूति रौद्रकर्मणः ।
दीप्तादिव चितावरेयस्मादुद्विजते जनः ॥ २२४ ॥
आचारः साधुवादाय विभवो विनयाय च ।
शक्तिः परोपकाराय भवत्युज्ज्वलजन्मनाम् ॥ २२५ ॥
व्ययेन ज्ञायते वित्तं शीलेन ज्ञायते कुलम् ।
सत्येन ज्ञायते सत्त्वं धर्मेण ज्ञायते श्रुतम् ॥ २२६ ।।
त्रयं परस्परं क्षिप्तं तुल्यमेवं प्रजायते ।
पापाज्जनापवादश्च तसाच विभवक्षयः ।। २२७ ॥
न तत्कुर्यात्कुले जातः श्रुतवान्विश्रुतो जनः ।
येनोन्नतपदभ्रष्टो याति प्रत्युत वाच्यताम् ।। २२८ ।।
हसन्तो हेलया कर्म तत्कुर्वन्ति प्रमादिनः ।
जन्मान्तरशतैरन्ते शोचन्ते न भवन्ति यत् ॥ २२९ ।।