पृष्ठम्:रामायणमञ्जरी.pdf/४४

पुटमेतत् सुपुष्टितम्
३५
रामायणमञ्जरी।

ततोऽसृजत्स सप्तान्यान्मुनीन्दक्षिणमार्गगान् ।
परां नक्षत्रमालां च प्रजापतिरिवापरः ॥ ४१६ ॥
तं स्रष्टुमुद्यतं देवा ज्ञात्वा त्रस्ता दिवौकसः ।
ऊचुः सानुशयं कृत्वा दैन्यव्यञ्जनमञ्जलिम् ॥ ४१७ ॥
गुरुशापादशुचितामयं यातो महीपतिः ।
सशरीरो दिवं गन्तुं मुने नार्हति सर्वथा ॥ ४१८ ॥
इति ब्रुवाणान्विबुधानब्रवीत्कौशिको मुनिः ।
त्रिशङ्कुस्वर्गगमने प्रतिज्ञा नान्यथा मम ॥ ४१९ ॥
तिष्ठत्वत्रैव भूपालो नक्षत्रैः सह सत्कृतैः ।
इत्युक्ता मुनिना देवास्तमूचुः शापशङ्किताः ॥ ४२० ॥
योगसंख्याविहीनानि वैश्वानरपथाद्बहिः ।
अक्षयान्यत्र तिष्ठन्तु नक्षत्राणि त्वदाज्ञया ॥ ४२१ ॥
अयं तवाज्ञया राजा तिष्ठत्वत्रैव सर्वथा ।
कीर्तिश्च तव शुभ्रेयं यशःस्तम्भ इवोज्ज्वला ॥ ४२२ ॥
उक्त्वेति याते द्युसदां मण्डले मुनिभिः सह ।
समाप्य कौशिको यज्ञं पुष्करं तपसे ययौ ॥ ४२३ ॥
अत्रान्तरे नृपः श्रीमानम्बरीषाभिधोऽभवत् ।
अयोध्यायां सुधासिन्धुरिव धर्मभृदाकरः ॥ ४२४ ॥
यजमानस्य तस्येन्द्रः पशुं भूमिशतक्रतोः ।
जहार तस्कृते पृथ्वीं विप्रवाक्याच्चचार सः ॥ ४२५ ॥
स तपोवनमासाद्य भृगुतुङ्गे स्थितं मुनिम् ।
ऋचीकं ससुतं भार्यासखं शान्तं व्यलोकयत् ॥ ४२६ ॥
तं प्रणम्य यथावृत्तं निवेद्यास्मै प्रसाद्य च ।
गवां शतसहस्रेण ययाचे तं पशुं सुतम् ॥ ४२७ ॥
ऋचीकस्तमथोवाच ज्येष्ठो नार्हति विक्रयम् ।
पुत्रो ममायं दयितः कुलमस्मिन्प्रतिष्ठितः ।। ४२८ ।।


१. 'ऋचेपुं. २. 'ऋचेपु' ग.