पृष्ठम्:रामायणमञ्जरी.pdf/४४२

पुटमेतत् सुपुष्टितम्
४३३
रामायणमञ्जरी।


ततः सा केशसंस्पर्शन्यक्कारदहनार्दिता ।
तमूचे त्वद्वधे शक्ता न करोमि तपोव्ययम् ॥ ३१९ ॥
जन्मान्तरे वधायैव तव स्यान्मे तनुग्रहः ।
इत्युक्त्वा पश्यतस्तस्य सा विवेश हुताशनम् ॥ ३२० ॥
सैवेयं जानकी जाता त्वत्कलत्रमयोनिजम् ।
कृते युगे देववती त्रेतायां सैव मैथिली ॥ ३२१ ॥
क्षेत्रे हलमुखाकृष्टे जनकस्य महीपतेः ।
श्रीरेषा राम पत्नी ते देवो विष्णुस्त्वमच्युतः ॥ ३२२ ।।
इति देववत्युपाख्यानम् ॥ १० ॥
ततः पुष्पकमारुह्य विचरन्भुवि रावणः ।
उशीरबीजनामानमारुरोह महाचलम् ॥ ३२३ ॥
मरुत्तं तत्र राजानं यजमानं ददर्श सः ।
वयं बृहस्पतिभ्राता संवर्तो यस्य याजकः ॥ ३२४ ।।
यज्ञभूमिस्थिता देवा वरदृप्तं दशाननम् ।
दृष्ट्वा प्रदुद्रुवुर्भीताः कृत्वा रूपविपर्ययम् ।। ३२५ ॥
शक्रः शिखी यमः काकः कृकलासो धनाधिपः ।
हंसो भूत्वा च वरुणः प्रययुस्ते मनोजवाः ॥ ३२६ ।।
ततो युद्धं प्रयच्छेति रावणेनार्थितः स्वयम् ।
ससंभ्रमो मरुत्तस्तं को भवानित्यभाषत ॥ ३२७॥
तमूचे स स्वयं हासमुक्त्वा नक्तंचरेश्वरः ।
अहो प्रौढावलेपेऽस्मिन्प्रीतोऽस्मि तब भूपते ।। ३२८ ॥
कस्तापस जगत्यस्मिन्देशोऽस्ति त्रिदिवाधिकः ।
दृश्यते यत्र नोष्णांशुः श्रूयते न च रावणः ।
पौलस्त्यं मां न जानासि भ्रातुर्येन धनप्रभोः ॥ ३२९ ।।
श्रुत्वैतदूचे तं राजा धन्यो जातः कुले भवान् ।
ज्येष्ठो भ्राता गुरुर्येन सदाचारेण मानितः ॥ ३३० ॥