पृष्ठम्:रामायणमञ्जरी.pdf/४४३

पुटमेतत् सुपुष्टितम्
४३४
काव्यमाला।


कर्मणा धनहीनेन जननिन्दारजोजुषा ।
दुर्जनः श्लाघते नित्यं लज्जते येन सज्जनः ॥ ३३१ ॥
इत्युक्त्वा चापमादाय सायकांश्च महीपतिः ।
उद्ययौ रावणं योद्धं सर्वतोऽथ तमब्रवीत् ॥ ३३२ ॥
असंपूर्णो निहत्येष राजन्माहेश्वरः क्रतुः ।
दीक्षा हि क्षीणरजसां किल्बिषक्षयसाक्षिणी ॥ ३३३ ॥
क्व दीक्षितः क्षमापात्रसंक्षिप्तसकलेन्द्रियः ।
क्व च क्रोधारजोध्वस्तं युद्धं कलिसमुद्धतम् ॥ ३३४ ।।
इति संवर्तकेनोक्तो मरुत्तः पृथिवीपतिः ।
उत्सृज्य सशरं चापं वभूव निरुपद्रवः ।। ३३५ ॥
ततः पौलस्त्यसचिवैर्जयशब्दे कृते पुनः ।
ब्रह्मर्षिशोणितपानमत्तो रक्षःपतिययौ ॥ ३३६ ॥
वरान्दत्वा विहङ्गेभ्यस्ततः सुतनृपान्वितः ।
पुनर्यज्ञभुवं देवा मरुत्तप्रीतये ययुः ॥ ३३७ ।।
वर्हे बर्हे सहस्राक्षः सहस्राक्षवरादभूत् ।
अद्यापि चाभ्रशब्देन शक्रप्रीत्यैव नृत्यति ॥ ३३८ ॥
हंसोऽपि हिमकर्पूरशीतांशुरजतद्युतिः ।
वरुणस्य वराज्जातस्तोयेशप्रीतिमान्सदा ॥ ३३९ ।।
कृकलासः सुवर्णाभः सदा सद्रव्यमस्तकः ।
बभूव भासुराकारः श्रीमद्वैश्रवणाश्रयात् ॥ ३४० ॥
बलिभुक्परितृप्तश्च पितॄणां प्रीतिकृत्सदा ।
अरोगश्चिरजीवी च काकोऽभूद्यमशासनात् ॥ ३४१ ॥
एवं ते प्राणिनः प्रापुस्तद्वरात्कृतकृत्यताम् ।
न हि सत्पुरुषैः सङ्गः क्वचिद्भवति निष्फलः ॥ ३४२ ॥
इति मरुत्तसमागमः ॥ ११ ॥
दुष्यन्तः सुरथो गोप्ता गयो गाधिः पुरूरवाः ।
एते चान्ये च भूपाला रावणेन जितास्ततः ।। ३४३ ॥