पृष्ठम्:रामायणमञ्जरी.pdf/४४६

पुटमेतत् सुपुष्टितम्
४३७
रामायणमञ्जरी।


इत्युक्त्वा विरते तस्मिन्सर्वं पूजामयोचितम् ।
पुरः पुष्पाणि निचितं चक्रुस्ते क्षणदाचराः ॥ ३७० ॥
ततो भ्रात्रा कृतजपः शुद्धात्मा हृदि योगकृत् ।
सदाचितं हेममयं लिङ्गमादाय सैकते ॥ ३७१ ॥
सर्वोपचारपूजाभिः पूजयित्वा यथेप्सितम् ।
नामाष्टशतकं गायन्ननर्त दशकन्धरः ॥ ३७२ ॥
विधानेन सदा पूजां कृत्वा सोऽभूज्जगजयी ।
तस्मिन्दिने समुत्सेको विधिहीनक्रियोऽभवत् ।। ३७३ ।।
सा पूजा महती शंभोदिव्यपुष्पविनिर्मिता ।
खेचराणां क्षणं चक्रे रत्नादिशिखरभ्रमम् ॥ ३७४ ।।
मन्दारैः सौरभोदारैः कचद्भिः काञ्चनाम्बुजैः ।
सुजातैः पारिजातैश्च सा पूजा शुशुभे विभोः ।। ३७५ ।।
अत्रान्तरे तटस्याधस्तीरे माहिष्मतीपतिः ।
विललासार्जुनो राजा सलिले ललनाशतैः ॥ ३७६ ॥
तस्य कङ्कणकेयूररत्नांशुवलयैर्जलम् ।
बभौ प्रावृङ्घनभ्रष्टैाप्तं चक्रायुधैरिव ॥ ३७७ ॥
तत्करास्फालितजलस्फारशीकरसंततिः ।
तरुणीनां स्तनतटे प्रययौ भारहारताम् ॥ ३७८ ॥
जलं पिञ्जरितं रेजे कामिनीकुचकुङ्कुमैः ।
हेमाम्बुजस्रजो राज्ञः किंजल्कैरिव पूरितम् ॥ ३७९ ।।
भुजानां भूपतिस्तत्र सारं ज्ञातुं तरङ्गिणीम् ।
धृत्वा चकार सावेगं प्रतिस्रोतः पराङ्मुखाम् ॥ ३८० ॥
निरुद्धा बलिना तेन प्रवृद्धेन महाम्भसा ।
मन्युनेव परावृत्ता सा जगाम यथागतम् ।। ३८१ ॥
अर्धे सलिलकल्लोलदुकूलवलिता सरित् ।
अर्धे भग्नतटे श्रेणीहृततोयांशुकाभवत् ।। ३८२ ॥


१. 'तार' क-ख. २. 'नग्न' शा०.