पृष्ठम्:रामायणमञ्जरी.pdf/४४७

पुटमेतत् सुपुष्टितम्
४३८
काव्यमाला।


इतः सहस्रगुणिता प्रापाथ तनुतामितः ।
तुल्यं मेघागमशरद्विरक्तेन बभूव सा ॥ ३८३ ॥
राज्ञा भुजसहस्रेण रुद्धा सागरगामिनी ।
मुखं वर्त्मसहस्रेण दत्त्वा दत्त्वा न्यवर्तत ।। ३८४ ॥
तटी भग्नवरोद्याना तस्याः कूलंकषैर्जलैः ।
तन्मार्गगामिनी दूरात्सा सर्वजनवर्जिता ॥ ३८५ ॥
बभ्राम रावणाज्ञेव पुण्याश्रमविनाशिनी ।
तां रावणकृतां पूजामुन्मत्तेव विशृङ्खला ॥ ३८६ ॥
जहार वीचिहस्तैः सा स्फीतफेनाट्टहासिनी ।
हृतपूजां नदी रक्षश्चक्षुषा क्षणमैक्षत ॥ ३८७ ॥
ईर्ष्यालुरिव सोत्सेका दयितामपकारिणीम् ।
क्षुभितां नर्मदां दृष्ट्वा निर्विकारामिव स्थिताम् ॥ ३८८ ।।
दिदेश संज्ञया ज्ञातुं रावणः शुकसारणौ ।
तौ गत्वा तटिनीमध्ये रोद्धारं सलिलं भुजैः ।। ३८९ ॥
वृतं कान्तासहस्रेण दृप्तं ददृशतुर्नुपम् ।
तौ तु दृष्ट्वा समभ्येत्य दशकन्धरसूचतुः ॥ ३९० ॥
निरुद्धा कार्तवीर्येण परावृत्ता तरङ्गिणी।
पौलस्त्यः सुचिरान्विष्टं स्थितं श्रुत्वा महीपतिम् ।। ३९१ ॥
अमर्षहर्षसंपूर्णः सानुगस्तां ययौ भुवम् ।
स तस्य सचिवानेत्य जगाद समरोन्मुखः ॥ ३९२ ॥
क्व स राजार्जुनो नाम सहस्रभुजदुर्मदः ।
दशाननोऽहं युद्धार्थी रसेन स्वयमागतः ॥ ३९३ ॥
न सेहे त्रिजगत्यस्मिन्बीरमानोन्नतं जनम् ।
इति ब्रुवाणं सावेगं मन्त्रिणस्तं बभाषिरे ॥ ३९४ ॥
स्वैरं स्थितो नरपतिः कान्ताकेलिकुतूहली ।
दृश्यो भवति नास्माकं कालेऽस्मिन्मदनिर्भरः ॥ ३९५ ॥