पृष्ठम्:रामायणमञ्जरी.pdf/४५

पुटमेतत् सुपुष्टितम्

3 काव्यमाला इत्युक्त्या मुनिना प्रीत्या तद्भार्याप्यवदन्नृपम् । नृ कनीयांञ्छुनको नाम ममायं दयितः सुतः ॥ ४२९ ।। नोत्सहेऽहमिमं त्यक्तुं दयितं जीवितादपि । ज्येष्ठः प्रायः प्रियः पुंसां कनीयांसश्च योषिताम् ॥ ४३० ॥ इति मातुर्वचः श्रुत्वा शुनःशेपो मुनेः सुतः । जगाद मध्यमो धीमान्भूमिपालं स्मिताननः ॥ ४३१ ॥ न विक्रेयः पितुर्ज्येष्ठः कनीयान्मातुरीप्सितः । अर्थादेवाद्य विक्रीतो मध्यमोऽहमबान्धवः ॥ ४३२ ॥ इत्युक्ते मुनिपुत्रेण तमेव पशुमीप्सितम् । गवां शतसहस्रेण निनाय वसुधाधिपः ॥ ४३३ ॥ अयोध्याभिमुखं गच्छन्सोऽवसत्पुष्करे निशाम् । तत्रादौ तु शुनःशेपो विश्वामित्रमभाषत ॥ ४३४ ॥ भगवंस्त्वामहं प्राप्तः शरणं तपसां निधिम् । ऋचेपुनाहं विक्रीतो मुनिना मध्यमः सुतः ॥ ४३५ ॥ अस्य राज्ञोऽम्बरीषस्य यातोऽस्मि पशुतां क्रतौ । रक्ष्यतामिति तेनोक्ते स्वसुतान्कौशिकोऽब्रवीत् ॥ ४३६ ॥ मद्गिरा भवतामेकः पशुतां यातु भूपतेः । रक्षणीयः शुनःशेपो मुनिः सर्वात्मना मम ॥ ४३७ ॥ विश्वामित्रवचः श्रुत्वा घोरं पुत्रास्तमूचिरे । परपुत्रस्य रक्षार्थ स्वपुत्रस्त्यज्यते कथम् ॥ ४३८ ।। मनो विकूणकः कोऽयं धर्मो दुष्कृतसंमतः । श्वमांसाशनतुल्योऽयं स्वपुत्रनिधनोद्यमः ।। ४३९ ॥ इति पुत्रवचः श्रुत्वा विश्वामित्रः क्रुधा ज्वलन् । श्वमांसवादिनः शापात्तान्निनाय श्वपाकताम् ॥ ४४० ॥ ततोऽब्रवीच्छुनःशेपं गच्छ राज्ञो महाक्रतौ । गाथाद्वयं पठित्वेदं मां स्मृत्वा शुभमाप्स्यति ॥ ४४१ ॥ १. ऋचीकनाम्ना' भवेत.