पृष्ठम्:रामायणमञ्जरी.pdf/४५१

पुटमेतत् सुपुष्टितम्
४४२
काव्यमाला।


वक्ति तार्क्ष्योपमां कस्ते लज्जेवाविलतुल्यता ।
यदि वा साम्यविरहान्मनसैवोपमीयते ॥ ४३४ ॥
दंशवन्मां समादाय त्वदन्यः को नु दिक्त्रये ।
क्षणेन भ्राम्यति व्यक्तमवधिर्नास्ति तेजसाम् ।। ४३५ ॥
अहो सुविपुलेऽप्यस्मिन्संसारे विवुधाद्भुते ।
रोमाञ्चकारिचरितो न दृष्टो त्वद्विधो जनः ॥ ४३६ ॥
लज्जा भवेन्मम परं यदि स्यात्त्वत्समोऽपरः ।
एकस्यैव तु शक्तिः कैर्लक्ष्यते ते विधेरिव ॥ ४३७ ॥
अविच्छिन्नधनप्राणं सख्यमस्तु मम त्वया ।
इत्युक्त्वा तेन सौहार्दं स चकाराग्निसाक्षिकम् ॥ ४३८ ।।
मासं वालिगृहे स्थित्वा पूज्यमानो दशाननः ।
जगज्जयाय सचिवैस्तैः समेत्यार्थितो ययौ ।। ४३९ ॥
एवं त्रैलोक्यजयिनो वालिनो वलशालिना ।
गोष्ठीषु दशकण्ठस्य स्मृतपात्रकृतं यशः ॥ ४४० ॥
सर्गायैव नमस्तस्मै यसिन्काले मनोमुपाम् ।
अद्भुतानामनित्यानां परिसंख्या न विद्यते ॥ ४४१ ।।
इति वालिरावणसख्यम् ॥ १५ ॥
तं मर्त्यलोके वीराणां वधायैव कृतक्षणम् ।
ददर्श नारदो मेघारूढः पुष्पकवाहनम् ॥ ४४२ ।।
सोऽब्रवीत्तिष्ठ पौलस्त्य प्रियं मे तव दर्शनम् ।
यत्त्वं सर्वास्ववस्थासु युद्धान्न विरतः क्वचित् ॥ ४४३ ॥
हरिणा दैत्यसंहारे ताक्ष्येण फणिभक्षणे ।
त्वया जगज्जये चास्मिंस्तोषितोऽहं कुतूहली ॥ ४४४ ।।
कि मिथ्या मर्त्यनिधने प्रयत्नोऽयं तवाधिकः ।
अनिशं येन जागर्ति संक्षयाय स्वयं यमः ॥ ४४५ ॥
जातः प्रजापतिकुले मानुषान्सा वृथावधीः ।
एते हि निहता एव मर्त्या मरणधर्मिणः ॥ ४४६ ॥