पृष्ठम्:रामायणमञ्जरी.pdf/४५४

पुटमेतत् सुपुष्टितम्
४४५
रामायणमञ्जरी।


एष त्वामुद्यतो वालः कियान्मे क्षणदाचरः ।
स्वयं विमुञ्च संरम्भं मया स्पृष्टो न जीवति ॥ ४७३ ॥
इति मृत्युवचः श्रुत्वा विश्वसंयमनो यमः ।
पश्य मे बलमित्युक्त्वा स्वयं रावणमाद्रवत् ।। ४७४ ॥
तदग्रे मुद्गरो घोरः पाशश्च विपुलत्विपः ।
कम्पमानेषु लोकेषु संनिधानं प्रचक्रतुः ॥ ४७५ ।।
ततः कोपात्समुद्यम्य दण्डं दण्डधरो जवात् ।
अभिद्रुते दशमुखे खयं ब्रह्मा समाययौ ।। ४७६ ॥
सोऽब्रवीन्मद्वराद्दृप्तस्तव वध्यो न रावणः ।
अमोघः सर्वभूतानां कृतो दण्डः क्षयाय च ॥ ४७७ ॥
निहते वा दशमुखे दण्डे वा मोघतां गते ।
असत्यं मामुभयतः स्पृशेत्स्थितिविनाशकृत् ॥ ४७८ ॥
इति साक्षाद्भगवता ब्रह्मणाभिहतो यमः ।
सर्वं तथेति संचिन्त्य सरथोऽन्तरधीयत ।। ४७९ ॥
लब्धलक्षे दशग्रीवे याते यमजयोजिते ।
अधोमुखा नारदेन सह देवा दिवं ययुः ॥ ४८० ॥
इति यमविसर्गः ॥ १६ ॥
ततो जलधिमार्गेण पातालं राक्षसेश्वरः ।
विशालं व्यालकलिलं प्रविश्य सचिवैः सह ॥ ४८१ ॥
जित्वा बलाद्भोगवतीं पुरी वासुकिपालिताम् ।
गत्वा मणिमयीं दैत्यनगरी रतभासुराम् ।
निवातकवचैः सार्धे वत्सरं युयुधे युधि ॥ ४८२ ।।
तेषां तत्र च संग्रामे तुल्ये तुल्यबलौजसाम् ।
ब्रह्मवाक्यात्कृतं सख्यं प्रीत्यै पावकसाक्षिकम् ॥ ४८३ ॥


१. 'तस्याग्रे शा०. २. 'द्विपः शा०. ३. 'मणि' शा.