पृष्ठम्:रामायणमञ्जरी.pdf/४५५

पुटमेतत् सुपुष्टितम्
४४६
काव्यमाला।


पूज्यमानः स्थितो वर्षं तेषां वेश्मनि रावणः ।
तेभ्यो दुर्नयमायानामेकोनं शतमाप्तवान् ॥ ४८४ ॥
अथाश्मनगरे हत्वा दैत्यानन्यान्सहस्रशः ।
प्राप कैलाससंकाशं शुभं वरुणमन्दिरम् ॥ ४८५ ॥ .
यत्र सा सुरभिर्नाम संज्ञा दिव्योपधिप्रसूः ।
स्थिता चन्द्रामृतोत्पत्तेर्जननी क्षीरवारिधः ॥ ४८६ ॥
तत्रामान्यान्स पप्रच्छ व स राजा जलेश्वरः ।
युद्धार्थी निर्जितयमः प्राप्तोऽहं रावणः खयम् ॥ ४८७ ।।
इति वादिनि सावेगं सानुगे राक्षसेश्वरे ।
अभूत्संनाहसंरम्भस्तुरङ्गरथदन्तिनाम् ॥ ४८८ ।।
ततः सलिलनाथस्य रथे वीराः प्रहारिणः ।
पुत्राः पौत्राश्च सामात्याः सैन्येन सह निर्ययुः ॥ ४८९ ॥
तेषां युद्धमभूत्खड्गप्रभापटलपल्लवम् ।
भिन्नोरुमुक्ताकुसुमं कृत्तवीरशिरःफलम् ॥ ४९० ॥ .
दारिते वरुणानीके रावणेन प्रमाथिना।
पुष्करप्रमुखा व्योम विविशुवरुणात्मजाः ॥ ४९१ ।।
रथिभिः पुष्करैस्तस्य तैर्लङ्काधिपतेरभूत् ।
युद्धं विपुलशस्त्रास्त्रज्वालालोलरसातलम् ।। ४९२ ॥
तेषां महोदरः क्षिप्रं रथात्पृथुपराक्रमः ।
तान्ममाथ गिरिस्फारान्गदया रिपुभङ्गदः ॥ ४९३ ॥
रणे वरुणपुत्रेषु भग्नेषु भुजशालिनाम् ।
रावणं वरुणामात्यः प्रभासः खयमभ्यधात् ॥ ४९४ ॥
अलं युद्धेन पौलस्त्य न स्थितो यादसां पतिः ।
गान्धर्वं निखिलं श्रोतुं ब्रह्मलोकमितो गतः ।। ४९५ ॥


१. 'मायानां शतमेकं समाप्तवान्' इति रामायणे. २. ' भि' क-ख. 'क्षरन्ती च पयस्तन सुरभि गामवस्थिताम्' इति रामायणे. ३. 'स्वधा' इति भवेत. ४. 'महासः' इति रामायणे.