पृष्ठम्:रामायणमञ्जरी.pdf/४५७

पुटमेतत् सुपुष्टितम्
४४८
काव्यमाला।


केनान्येन वदान्येन क्रियतामुपमा बलेः ।
त्यागेनात्युन्नतिं नीतो येन स्वल्पोऽपि याचकः ॥ ५०९ ॥
स्पृहणीयैव समरे शूरस्येव विरूपिता ।
तुल्यं(?) संपत्सहस्रेण दातुर्दानोद्भवा विपत् ॥ ५१० ॥
तं दृष्ट्वा तेजसां राशिं प्रगल्भोऽपि दशाननः ।
अभून्निष्प्रतिभः प्राप्य मूल् विद्वत्सभामिव ॥ ५११ ॥
तमुत्सङ्गे समारोप्य दूरागमनकारणम् ।
प्रीतिप्रसारितोष्ठाग्रः पप्रच्छ स्वच्छधीर्वलिः ॥ ५१२ ॥
तं रावणोऽवदद्बद्धं श्रुत्वाहं त्वां मुरारिणा ।
शक्तः प्राप्तोऽस्मि मोक्षाय निर्जिताशेषनिर्जरः ॥ ५१३ ॥
दशास्यवचनं श्रुत्वा हासोल्लाससिताननः ।
उवाच रुचिरं कुर्वन्पाताले चन्द्रिका बलिः ॥ ५१४ ॥
एष द्वारि स्थितः श्यामः किरीटी दीर्घकुण्डलः ।
पुरुषः शाश्वतः श्रीमान्बद्धोऽहं येन लीलया ॥ ५१५ ॥
मधुकैटभमुख्यास्ते हिरण्याक्षपुरोगमाः ।
तस्योदरदरीं सर्वे प्रविष्टाः कालरूपिणः ॥ ५१६ ॥
एष स्रष्टा च संहर्ता विश्वरूपः सनातनः ।
यं मोक्षगामिनः सिद्धा यतयः पर्युपासते ॥ ५१७ ॥
सर्वात्मा भगवानेप प्रत्यक्षोऽपि न दृश्यते ।
प्रकाशबन्धुर्मोहान्धैः सहस्रांशुरिवाम्बरे ॥ ५१८ ॥
तं जेतुं तव संकल्पो हास्य कस्य न जायते ।
पूर्णेन्दुयाच्ञा रुदिते(?) बालस्येव फलाशया ॥ ५१९ ॥
इत्युक्त्वा बलिना श्रुत्वा ततो निर्गत्य रावणः ।
न तं ददर्श पुरुषं देहस्थमिव मूढधीः ॥ ५२० ॥
स समुन्मज्य पातालात्तेनैवाम्बुधिवर्मना ।
शशाङ्कलोकं निःशङ्कः प्रतस्थे जेतुमञ्जसा ॥ ५२१ ॥
इति पातालविजयः ॥ १७ ॥


१. वामनोऽप्युरुक्रमतां नीत इति भावः.