पृष्ठम्:रामायणमञ्जरी.pdf/४५९

पुटमेतत् सुपुष्टितम्
४५०
काव्यमाला।


अशीति योजनानां तु सहस्राणीन्दुमण्डलम् ।
शतलक्षांशुविषदं भयदं प्राप्य रावणः ।। ५३५ ॥
पपात सानुगस्तत्र यत्स शीतसमाहतः ।
सा कापि महती शक्तिर्हिमस्य दहनामिका ॥ ५३६ ॥
तं प्रहस्तोऽवदद्दन्तवाद्यप्रस्खलिताक्षरः ।
निवर्तस्व दशग्रीव निधनायेह संनिधिः ॥ ५३७ ।।
श्रुत्वैतत्कोपसंतप्तः पौलस्त्यः सोममण्डले ।
चिक्षेप दीप्तान्नाराचान्प्राप्तजीवितसंशयः ॥ ५३८ ।।
ततः स्वयं समभ्येत्य स्वयंभूस्तमभापत ।
इतः पुत्र निवर्तख संरम्भ मा कृथाः परम् ॥ ५३९ ॥
प्राणक्षये स्वरक्षार्थं मन्त्रराजं गृहाण च ।
रौद्रं नामाष्टकशतं विजयो येन लभ्यते ॥ ५४० ॥
शिवः शिवग्रदो लोके भवो भवविनाशनः ।
हरः क्लेशहरो देवः शिवः सर्वार्थसिद्धिदः ॥ ५४१ ॥
विभुः स्वयंभूर्भगवान्भर्गः सर्गलयोदयः ।
शंभुः स्तम्भितजम्भारिभुजस्तम्भो महेश्वरः ॥ ५४२ ॥
सर्वदेवमयो वेत्ता विदितो वेदवादिनाम् ।
योगज्ञो योगिनां ध्येयः परमात्मा सनातनः ॥ ५४३ ॥
भूतकृद्भूतहृद्भूतभर्ता भूतिसिताकृतिः ।
स्तोत्रेणानेन विश्वेशः शंकरः परितुष्यति ॥ ५४४ ॥
इत्युक्त्वा राक्षसेन्द्राय नामाष्टशतकं विधिः ।
दत्त्वा जगाम भगवान्सिद्धर्पिगणवन्दितः ॥ ५४५ ॥
इति सोमलोकगमनम् ॥ १९ ॥
ततः प्रभृति निवृत्तो वरदृप्तो दशाननः ।
जहार सुरगन्धर्वनागर्किनरकन्यकाः ॥ ५४६ ॥


१. 'धर्म' शा०.