पृष्ठम्:रामायणमञ्जरी.pdf/४६

पुटमेतत् सुपुष्टितम्
३७
रामायणमञ्जरी।

इति शासनमासाद्य मुनेर्भूमिभुजा सह ।
प्रययौ तत्क्रतुक्षेत्रं निर्भयो मुनिपुत्रकः ॥ ४४२ ॥
सदस्यानुमतः सोऽथ पवित्रीकृतलक्षणः ।
पवित्रपाशैराविष्टो रक्ताम्बरविलेपनः ॥ ४४३ ॥
आसाद्य वैष्णवं रूपं मनसा कौशिकं स्मरन् ।
पठन्गाथाद्वयं प्राप यूपं विशमनास्पदाम् ॥ ४४४ ॥
ततः प्रीतः सहस्राक्षः फलं बहुगुणं क्रतोः ।
दत्त्वा राज्ञे शुनःशेपं ररक्ष विपुलाशयः ॥ ४४५ ॥
कौशिकोऽपि सहस्राब्दं पुष्करे दुष्करं तपः ।
कृत्वापश्यद्रतस्नातः स्वयं ब्रह्माणमागतम् ॥ ४४६ ॥
स देवैः सहितस्तस्य विना ब्राह्मण्यमुत्तमम् ।
दत्त्वा तपःफलं दिव्यं सहसान्तरधीयत ॥ ४४७ ॥
विश्वामित्रोऽपि तत्प्राप्त्यै पुनस्तीव्रतरं तपः ।
सुरशङ्कास्पदं मानी चकार दृढनिश्चयः ॥ ४४८ ॥
ततः कदाचिदभ्येत्य मेनका नाककामिनी ।
पुष्करे विदधे स्नानं कान्तिसंदेहितोदका ॥ ४४९ ॥
तां विलासस्मितसुधासेकपल्लविताधराम् ।
चलत्कटाक्षविक्षेपरचितश्रवणोत्पलाम् ।। ४६० ॥
हेमकुम्भयुगेनेव स्तनभारेण भूषिताम् ।
विपुलश्रोणिविपुलां कान्तिकल्लोलिनीमिव ।। ४५१ ॥
विलोक्य कौशिकमुनिर्ययौ प्रीतिविधेयताम् ।
महतामपि चित्ताब्धिमन्दरः सर्वथा स्मरः ॥ ४५२ ॥
(तिलकम्)
स तस्या निर्भरासङ्गप्रणये प्रेमयन्त्रितः ।
दशवर्षायुतं कालं क्षणं मेने स्मराकुलः ॥ ४९३ ।।