पृष्ठम्:रामायणमञ्जरी.pdf/४७

पुटमेतत् सुपुष्टितम्
३८
काव्यमाला ।

ततोऽनुशयगासाद्य तपोविघ्नमवद्यताम् ।
शरदीव नदीवेगो ह्रियाभूदल्पको मुनिः ॥ ४५४ ॥
प्रक्षाल्य मनसो रागं विवेकविमलोऽभवत् ।
विसृज्य मेनकां चक्रे स चिरं विपुलं तपः ॥ ४५५ ॥
उत्तराद्रितटे तस्य कौशिकीतीरवासिनः ।
तपोयुक्तस्य वर्षाणां सहस्रं शनकैर्ययौ ।। ४५६ ॥
ततो भीताः सुराः सर्वे समभ्येत्य प्रजापतिम् ।
लभतां कौशिको ब्रह्मशब्दमित्यूचिरे जवात् ॥ ४५७ ॥
देवैरभ्यर्थितो धाता समेत्योवाच कौशिकम् ।
मुने नाद्यापि निर्द्वन्द्वो भवानविजितेन्द्रियः ॥ ४९८ ॥
वशी प्राप्स्यसि कालेन ब्राह्मण्यं ब्रह्मसंमतम् ।
इत्युक्त्वान्तर्हिते क्षिप्रं विश्वयोनौ महामुनिः ॥ ४५९ ॥
ऊर्ध्वबाहुर्निरालम्बश्चक्रे वाताशनस्तपः ।
ग्रीष्मे पञ्चानलः शीते सलिलान्तरमाश्रितः ॥ ४६० ॥
तस्योग्रतपसो भीत्या संभ्रमोऽभूद्दिवौकसाम् ।
सुराङ्गनां ततः शक्रः प्राहिणोत्तज्जिगीषया ।। ४६१ ॥
सा शापचकिता प्रायात्कौशिकस्य तपोवनम् ।
शक्रवाक्यानुगता मधुना मदनेन च ॥ ४६२ ॥
ततः फुल्ललताजालभ्रमद्भमरमण्डले ।
स्मरबन्दिनि सानन्दे कलालापिनि कोकिले ॥ ४६३ ॥
विलाससरसारम्भां रम्भां संभावितस्मराम् ।
ददर्श कौशिकः कान्तां नयनानन्दकौमुदीम् ।। ४६४ ॥
(युगलकम्)
स तां दीर्घतपाः स्निग्धचक्षुषा क्षणमैक्षत ।
शोषितेऽपि शरीरेऽस्मिन्नभिलाषो न शुष्यति ॥ ४६५ ॥
तां ज्ञात्वा तपसो विघ्नं सहस्राक्षेण निर्मिताम् ।
स शशापाभवद्येन सा शिला वत्सरायुतम् ॥ ४६६ ।।


१. 'मवेत्य' ग. २. 'संगतम्' ग. ३. 'तत्रो' ग.