पृष्ठम्:रामायणमञ्जरी.pdf/४७६

पुटमेतत् सुपुष्टितम्
४६०
रामायणमञ्जरी


अथ कक्षान्तरं रामो गत्वान्तःपुरमन्दिरम् ।
नानाकथाभिश्चित्राभिश्चिरं तस्थौ सुहृद्धृतः ।। ७१८ ॥
विजयो मधुमान्भद्रः कश्यपः पिङ्गलः कुरुः ।
सुराजको वैजदन्तो मागधश्च मनीषिणः ॥ ७४९ ॥
नवैते नन्दसुहृदा रामस्य हृदयप्रियाः ।
परिहासकथाशीलैस्तैः स गोष्ठीरतोऽभवत् ।। ७५० ॥
ततः कथान्ते पप्रच्छ भद्रं राजा यशःप्रियः ।
पुरे जनपदे वास्मिन्प्रवादः कीदृशो मम ।। ७५१ ।।
किमाहुर्मे शुभं लोके किमाहुरशुभं जनाः ।
ज्ञात्वा मनोभयं कुर्यान्निदोषं गुणसंग्रहम् ।। ७५२ ।।
गुणदोषं स्फुटं वाच्यं सुहृद्भिः सर्वथा जनः ।
छन्नदोषं गुणं वक्ति यः स मित्रमुखो रिपुः ॥ ७५३ ।।
इत्युक्ते रघुनाशेन मन्द्रः प्राञ्जलिरब्रवीत् ।
राजन्नानाविधो लोकः परनिन्दास्तुतिव्रतः ॥ ७५४ ।।
शुभाशुभकां कामं जनः सूर्योऽपि भाषते ।
शक्तिर्दशाननवधे कथमत्यद्भुतं तव ॥ ७५५ ॥
जनः सीतापहारे च शीलशङ्कासहिष्णुताम् ।
अनाश्चर्यद्वयं लोके राघवस्यैव दृश्यते ।। ७५६ ।।
क्षमा कलत्रदोषे च सेतुबन्धश्च सागरे ।
वयमप्यधुना सर्वे दारदोपान्सहामहे ॥ ७५७ ॥
महाजनानुयायिन्यः प्रायेण सततं प्रजाः ।
इति प्रवादो लोकस्य मिथ्पादोपैकदर्शिनः ।
मिथः कथासु रथ्यासु गृहेषूपवनेषु च ।। ७५८ ।।
इत्येतदशनिस्पर्श वचो निपतितं हृदि ।
आकर्ण्य राघवो दुःखाच्चकारूढ इवाभवत् ।। ७५९ ।।


१. 'सुहृद्गतः' शा०. २. 'विजयो मधुमत्तश्च कादयपो मङ्गलः कुलः । मुरान्ति कालियो भद्रो दन्तवकः सुमागधः । इत्येवं वा० रामायणे. ३. 'राजदन्तो' शा.