पृष्ठम्:रामायणमञ्जरी.pdf/४८

पुटमेतत् सुपुष्टितम्
३९
रामायणमञ्जरी।

मन्मथे मधुना सार्धं याते भग्नमनोरथे ।
कामक्रोधविकारेण पश्चात्तापं ययौ मुनिः ॥ ४६७ ॥
विप्रप्रसादपर्यन्तं तस्याः शापं विधाय सः ।
निरुच्छ्वासोऽभवन्मौनी वर्षायुतमभोजनः ॥ ४६८ ॥
स्थाणुभूते निरालम्बे क्रोधमात्सर्यवर्जिते ।
विघ्नाः शक्रेरितास्तस्मिन्नावकाशं च लेभिरे ॥ ४६९ ॥
तस्य वर्षसहस्रान्ते श्रितान्नव्रतपारणः ।
विप्ररूपः स्वयं शक्रः सर्वमभ्येत्य भुक्तवान् ।। ४७० ।।
परं वर्षसहस्रं स निरुच्छ्वासोऽभवत्पुनः ।
तत्तालुबिवरोत्थैश्च धूमैर्द्यौः समपूर्यत !! ४७१ ॥
समुद्भ्रान्ते ततो लोके सदेवासुरपन्नगे।
मन्दतेजसि तिग्मांशौ क्षुभिते चाब्धिमण्डले ॥ ४७२ ॥
विदीर्णे गिरिसंघाते कम्पमाने महीतले ।
सुरैरभ्यर्थितो ब्रह्मा स्वयं मुनिमुपाययौ ॥ ४७३ ॥
(युगलकम्)
स तस्मै क्षीणमोहाय ददौ ब्रह्मर्षितां विभुः ।
सोऽकरोत्स्ववशं सर्वान्वेदानमरतां तथा ॥ ४७४ ॥
ततः प्रजापतिं प्रीतं प्राञ्जलिः कौशिकोऽवदत् ।
ब्रह्मसूनुर्वशिष्ठो मां ब्राह्मणोऽसीति भाषताम् ॥ ४७५ ॥
ततः सुरैः समाहूतो वशिष्ठः समभ्येत्य तम् ।
ब्रह्मर्षये स्वस्ति तुभ्यमित्युवाचास्तकिल्विषः ॥ ४७६ ॥
अन्तर्हिते सुरैः सार्ध सहसैव पितामहे ।
सख्यं कृत्वा वशिष्ठेन कौशिकः सुखितोऽभवत् ॥ ४७७ ॥
इत्येवं विविधाश्चर्यचरितो भगवानयम् ।
धन्योऽसि बत काकुत्स्थ गोप्ता यस्य महामुनिः ॥ ४७८ ॥
इति विश्वामित्रोपाख्यानम् ॥ १० ॥