पृष्ठम्:रामायणमञ्जरी.pdf/४८१

पुटमेतत् सुपुष्टितम्
४७२
काव्यमाला।


करुणार्द्रमनाः सीतामित्युक्त्वा भगवान्मुनिः ।
न्यवेशयत्तापसीभिः सान्त्व्यमाना तपोवने ।। ८११ ॥
इति सीतापरित्यागः ।। ३० ॥
व्रजन्रथेन सौमित्रिः शोकसंतप्तमानसः ।
सुमन्तं नेत्रजं वारि वर्षन्मेघ इवाभ्यधात् ।। ८१२ ॥
दृष्ट्वा प्रवासदुःखस्य महतो धैर्यवारिधः ।
आर्यस्य शोकनैराश्यादजर्योऽयं भविष्यति ॥ ८१३ ।।
धिङ्मां निष्करुणं पापमार्यदुःखैकसाक्षिणम् ।
त्यक्ता सीता गिरा येन मया श्वभ्रादिवोज्झिता ।। ८१४ ॥
प्रियसंगमनैराश्यदुःसहव्यसनाकुलम् ।
स्वहस्तेनैव हत्वा तां प्रविश्यामि (१) कथं पुरीम् ॥ ८१५ ॥
अपुनःसंगमत्यागपरिभाषणनिष्ठुरः ।
सीतां कापालिको द्रष्टुं लक्ष्मणो नापरः क्षमः ।। ८१६ ॥
नृशंसो मत्समः कोऽस्ति येन सीता विलोकिता ।
सहसा निष्प्रतीकारत्यागसंभ्रमकातरा ।। ८१७ ॥
इति शोचन्तमसकृद्द्वादानुशयमूर्छितम् ।
उवाच लक्ष्मणं धीमान्सुमन्त्रो मन्त्रिणां वरः ॥ ८१८ ॥
देवस्य गतयश्चित्राः कालः सर्वकशस्तदा ।
एवंविधैव भावानां पर्यन्ते विशरारुता ॥ ८१९ ॥
भवितव्यमिदं सर्वं त्वरिपतुः पुरतो मया ।
उक्तं दुर्वाससा साक्षाद्वसिष्ठस्याश्रमे श्रुतम् ॥ ८२० ॥
इति सौमत्रिमाश्वास्य सुमन्त्रः कौशिकीतटे ।
निनाय नयतत्त्वज्ञस्तेनैव सहितः क्षपाम् ॥ ८२१ ॥
अथान्यस्मिन्दिनस्यान्ते प्रविश्य विमनाः पुरीम् । ,
विपार्त इव सौमित्रिर्धातुर्मन्दिरमाविशत् ॥ ८२२ ॥


१. 'दधार्योऽयं शा..