पृष्ठम्:रामायणमञ्जरी.pdf/४८३

पुटमेतत् सुपुष्टितम्
४७४
काव्यमाला।


एवमेतत्समुचितं यथा वदसि लक्ष्मण ।
कालप्रवाहो बलवान्मार्गनाशाय गच्छति ॥ ८३६ ॥
इदं दहति मे चेतः स्वितित्वात्तकृपस्य यत् ।
चत्वारो वासरा याताः प्रजाकार्याण्यशृण्वतः ॥ ८३७ ॥
अयमेव नरेन्द्राणां हेतुर्नरकसंचये।
लम्बन्ते दुष्प्रवेशे यद्द्वारे कार्यार्थिनो जनाः ॥ ८३८ ।।
श्रूयते किल विप्रेभ्यो नृगो नामा महीपतिः ।
गवां कोटीः सहस्त्राणि पुष्करेषु ददौ पुरा ॥ ८३९ ॥
ब्राह्मणस्याग्निवेशस्य होमधेनुः पयखिनी ।
सङ्घमध्यगता तेन विप्राय प्रतिपादिता ।। ८४० ॥
तामन्वेष्टुं स सुचिरं वनेषु नगरेषु च ।
द्विजश्चचार न च तां प्रियां विद्यामिवाप्तवान् ॥ ८४१ ।।
ततः काले कनखले विवत्सां जीर्णविग्रहाम् ।
स तां ददर्श दयितां धेनुं ब्राह्मणवेश्मनि ।। ८४२ ॥
एह्येहि बहले दूरादित्याहूता द्विजेन सा ।
प्रीत्या हुंकारिणी सासा तमेवानुययौ जवात् ॥ ८४३ ॥
प्रतिग्रहाप्तां तां दृष्ट्वा ह्रियमाणां द्विजेन गाम् ।
ब्राह्मणेभ्यः "द्विवादोऽभूत्तयोस्ततः ॥ ८४४ ॥
नृगेण मह्यं दत्तेयं जातेयं स्वगृहे मम ।
इति प्रवादमुखरौ जग्मतुस्तौ नृगालयम् ॥ ८४५ ॥
सुचिरं स्थितयोस्तत्र विवादे निर्णयार्थिनोः ।
गम्भीरे राजसदने प्रवेशो नाभवत्तयोः ॥ ८४६ ॥
बहुभिर्दिवसैः कृच्छ्राक्षुत्क्षामौ प्रापितं नृपम् ।
ऊचतुर्मन्युसंताप]मुनिरन्तांविवाक्षरैः ।। ८४७ ॥


१. 'विवदन्ती ततोऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृग- शासनम् । अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ॥ इति रामायणानुसारेण 'नापता' इति पाठः स्यात्.