पृष्ठम्:रामायणमञ्जरी.pdf/४८६

पुटमेतत् सुपुष्टितम्
४७७
रामायणमञ्जरी।


उर्वशीशापसंक्रान्तमैत्रधाम्ना तु तेजसः ।
वारुणादथ संस्पृष्टोऽप्यपरो मुनिरुद्गतः ॥ ८७१ ।।
वसिष्ठस्तेजसा राशिः स मैत्रावरुणो मुनिः ।
गुरुर्बभूव भगवानिक्ष्वाकूणां परायणम् ॥ ८७२ ।।
मुनयोऽपि निमेर्यज्ञे शरीरं मन्त्रसंस्कृतम् ।
रक्षन्तः कर्मणः पारं प्रययुर्दैवतैः सह ।। ८७३ ॥
ततः सुराणां वचसा लोचनेषु शरीरिणाम् ।
निमेषवासी सततं बभूव नृपतिर्निमिः ॥ ८७४ ।।
मुनिभिस्तस्य पुत्रार्थ यज्ञान्ते मथितारणिः ।
अजीजनन्मिथिं नाम [जननाजननी नृपम् ॥ ८७५ ।।
मिथिना मिथिला नाम] विदेहेषु कृता पुरी।
निमिर्यत्र विदेहोऽभूद्विदेहास्ते जनाः स्मृताः ॥ ८७६ ॥
इति मैथिलसंभवः ॥ ३४ ॥
एतदाकर्ण्य रामेण कथितो राघवानुजः ।
निनिंद्रामखिलां रात्रिं तमपृच्छत्पुनः पुनः ॥ ८७७ ॥
दीक्षितो गुणवान्वीरो राजा शक्राधिकोऽपि सः ।
क्षमां निमिर्वसिष्ठस्य तस्मान्न कृतवान्वशी ।। ८७८ ॥
कोपना कातराः क्षुद्रा भवन्ति विभवे खलाः ।
क्षमयैव विभाव्यन्ते कुलीनाः प्रभविष्णवः ॥ ८७९ ।।
इति सौमित्रिणा पृष्टः काकुत्स्थः पुनरब्रवीत् ।
कोपः समुद्तो घोरः कस्याचौरमपेक्षते ।। ८८० ॥
न क्षमां क्षमते कोषः साधुतामिव दुर्जनः ।
चण्डालेनेव येनात्मा स्पृष्टो यात्यपवित्रताम् ।। ८८१ ॥


१. कोष्टकान्तर्गतपाठः शारदालिपिपुस्तके नोपलभ्यते. २. 'जननाजनकोऽभवत्-' इति रामायणानुसारेण 'जननाजनक' इति पाठो भवेत्, ३. 'व्यमाञ्चेत' क ख. ४. 'चार प्रतीक्षते' शा०