पृष्ठम्:रामायणमञ्जरी.pdf/४८९

पुटमेतत् सुपुष्टितम्
४८०
काव्यमाला।


यशःशशाङ्कशुभ्रस्य प्रतापानलतेजसः ।
धर्मोऽस्मिन्दृश्यते लोके प्रभावाद्भूतभासुरः ।। ९०७ ।।
इयं ते सर्वसामान्या भूतेष्वभयदा स्थितिः ।
सभायामुत्सहे वक्तुं प्रगल्भः श्वापि नाम यत् ॥ ९०८ ।।
भिक्षुः सर्वार्थसिद्धाख्यो ब्राह्मणावसथे स्थितः ।
तेन दण्डप्रहारेण कृतोऽहं भिन्नमस्तकः ॥ ९०९ ॥
इत्युक्ते सारमेयेन द्वाःस्थेनाहूय तं द्विजम् ।
अनागसि प्रहारस्य हेतुं पप्रच्छ राबवः ९१० ॥
अदोषः किमयं ब्रह्मन्दण्डेन श्वा हतस्त्वया ।
दयावान्सर्वभूतेषु ब्राह्मणो मैत्र उच्यते ॥ ९११ ॥
वाग्विषो भुजगोत्तीर्णः सर्वच्छेदी परश्वधः ।
भ्रूभङ्गभीमो दहनः क्रोधो मृत्युः शरीरिणः ॥ ९१२ ॥
यज्ञो जपस्तपो दानं सत्यं च सुकृतं कृतम् ।
क्रोधेनाशुचिना स्पृष्टं सर्वं यात्यपवित्रताम् ॥ ९१३ ॥
यस्यात्मा संनिकर्षस्थः क्रोधावगेन विस्मृतः ।
स कथं परलोकस्यं धर्म स्मरति दुर्मतिः ॥ ९१४ ॥
स श्वा सदन्तनिष्पेषभीषणः सह्यते न कैः
यस्य क्रोधपिशाचेन घोरेणाधिष्ठितं मनः ।। ९१५ ॥
कालस्यान्यः प्रकारोऽयं क्रुद्धो यस्मिन्प्रयात्यलम् ।
सुहृद्वन्धुः पिता पुत्रः शरीरं चोपहारताम् ॥ ९१६ ॥
पश्यति द्रविणं लुब्धः कामी पश्यति कामिनीम् ।
पश्यति अममुन्मत्तः क्रुद्धः किंचिन्न पश्यति ।। ९१७ ॥
क्रोधे संनिहितो वह्निः क्रोधे संनिहितं विषम् ।
क्रोधे संनिहितो मृत्युः क्रोधो नरकदैशिकः ।। ९१८ ॥
इत्युक्ते भूभुजा विप्रः प्रोवाच रचिताञ्जलिः ।
मया क्रोधाभिभूतेन कृतं किंचिदसांप्रतम् ॥ ९१९ ॥


१. 'वशेन' शाक