पृष्ठम्:रामायणमञ्जरी.pdf/४९३

पुटमेतत् सुपुष्टितम्
४८४
काव्यमाला।


मदयन्ती तमवदद्भार्या क्रुद्धं महीपतिम् ।
मुनिर्वसिष्ठः पूज्योऽयमस्माकं कुलदैवतः ॥ ९५८ ॥
ततः पत्नीगिरा राजा तोयं जग्राह पादयोः ।
निधौतपादो येनासौ ययौ कल्माषपादताम् ॥ ९५९ ॥
तस्येयं यज्ञवसुधा सौदासस्य महीपतेः ।
कथयित्वैव वाल्मीकिर्विरराम मुनीश्वरः ॥ ९६० ॥
इति सौदासस्योपाख्यानम् ॥ ३७ ॥
तस्मिन्नवसरे तत्र पुण्ये मुनितपोवने ।
असूत सीता यमजौ कुमारावश्विनाविव ॥ ९६१ ॥
ततः शिष्यैः प्रियाख्यानादाहूतः करुणानिधिः ।
वाल्मीकिर्विदधे रक्षां कुशैलिकयोस्तयोः ।। ९६२ ।।
तौ रक्षता कुशलवैस्तेन तेजखिना वने ।
शिशू कुशलवावेव दिव्यरूपौ वभूवतुः ॥ ९६३ ॥
रामस्य तनयो जातौ श्रुत्वा प्रमदनिर्भरः ।
निशां निनाय शत्रुघ्नः श्यामां प्रावृट्पयोधरैः ॥ ९६४ ॥
प्रभाते मुनिमामन्त्र्य स गत्वा सप्तभिर्दिनैः ।
अनयद्यमुनातीरे च्यवनस्याश्रमे निशाम् ॥ ९६५ ॥
कथान्ते च्यवनं तत्र स पप्रच्छ कुतूहलात् ।
दैत्यः स भूतभयकृल्लवणः किंपराक्रमः ॥ ९६६ ॥
इति पृष्टो मुनिस्तेन वभाषे भृगुनन्दनः ।
लवणस्याद्भुतं कर्म घोरं वक्तुं न पार्यते ॥ ९६७ ॥
यौवनाश्वः पुरा राजा मान्धाता पृथिवीं वशे ।
कृत्वा पराक्रमोदारश्चक्रे शक्रासने स्पृहाम् ॥ ९६८ ॥
तं जेतुमुद्यतं वीरं सुरलोकं सुरेश्वरः ।
उवाच पृथिवी पूर्णा न जिता भूपते त्वया ॥ ९६९ ॥


१. 'मुद्यतो' शा०.