पृष्ठम्:रामायणमञ्जरी.pdf/४९७

पुटमेतत् सुपुष्टितम्
४८८
काव्यमाला।


जीर्णो जीवाम्यहं वृद्धः पञ्चवर्षः शिशुर्मृतः ।
अहो नु राजदोषेण कष्टमापतितं मम ॥ १००८ ।।
मृते सुते न जीवामि ब्राह्मणी निधनोद्यता।
अहो पापस्य नृपतेर्ब्रह्महत्यापरम्परा ॥ १००९ ॥
एतदाकर्ण्य काकुत्स्थः क्षिप्रं संक्रान्ततव्यथः ।
केदार इव केदारजलेनापूरितोऽभवत् ।। १०१० ॥
स सभायां समानाय्य सामात्यं मुनिमण्डलम् ।
न शशाक क्षणं वक्तुं दुःखसंतापचिन्तया ॥ १०११ ॥
ततो वसिष्ठजावालिकौत्सगौतमनारदाः ।
मार्कण्डेयात्रिमौद्गल्या वामदेवपुरोगमाः ॥ १०१२ ॥
भृगुप्रभृतयश्चान्ये सकात्यायनकाश्यपाः ।
तस्थुर्दुःखाकुले राज्ञि चित्रन्यस्ता इवाचलाः ॥ १०१३ ॥
कारणं वालनिधने तेषु पृष्टेषु भूभुजा ।
तमभाषत देवर्षिः क्षणं संचिन्त्य नारदः ॥ १०१४॥
पुरा कृतयुगे राजन्नेकवण समक्रियम् ।
मृत्युहीनमनायासमभूद्ब्रह्ममयं जगत् ॥ १०१५ ॥
ततस्त्रेतायुगे ब्रह्मक्षत्रं समतपोवलम् ।
वैश्यशूद्रोपकरणं बभूवावधिजीवितम् ॥ १०१६ ।।
अनृताख्यं ततः पादमधर्मों निदधे परम् ।
त्रिपाद्बभूव धर्मश्च रागद्वेषाकुले जने ।। १०१७ ॥
अधर्मस्य ततः पादो द्वितीयः समपद्यत ।
तेन द्वापरसंज्ञोऽसौ युगोऽधर्मस्तदा द्विपात् ॥ १०१८ ।।
तस्मिन्युगे प्रवृत्ते तु वैश्यानां शनकैस्तपः ।
तपो नास्त्येव शूद्रस्य नोपदेशं न च व्रतम् ॥ १०१९ ।।
जुहोति शूद्रो यद्वह्निं शूद्रो यत्कुरुते तपः ।
गुरुर्भवति शूद्रो यत्तत्पूर्णं लक्षणं कलेः ॥ १०२० ॥