पृष्ठम्:रामायणमञ्जरी.pdf/५०

पुटमेतत् सुपुष्टितम्
४१
रामायणमञ्जरी।

दर्पप्रचण्डदोर्दण्डाः सीतापरिणयोत्सुकाः ।
चण्डीशचापदण्डेन के नृपा न विडम्बिताः ॥ ४९१ ॥
असक्ता ग्रहणे तस्य का कथा धारणे पुनः ।
तोलने नष्टसंकल्पा लङ्घने जलधेरिव ॥ ४९२ ॥
ते संहता नृपतयस्तुलारोपितविक्रमाः।
चक्रुर्मे नगराबन्धं शङ्काकोपाकुलाशयाः ॥ ४९३ ॥
ततः संवत्सरे पूर्ण क्षीणसैन्याब्धिना मया ।
देवतानां वरात्माप्तं चतुरङ्गं महबलम् ॥ ४९४ ॥
तेन ते विदिताः सर्वे छिन्नच्छत्ररथध्वजाः ।
स्वपुराणि ययौ भूपा ध्वस्तमानमनोरथाः ॥ ४९५ ॥
तामिमां शौर्यशुल्का मे कन्यां कुवलयेक्षणाम् ।
रामः प्राप्स्यति शक्तश्चेत्कार्मुकारोपणे पणे ॥ ४९६ ॥
इत्युक्त्वा मन्त्रिणः सर्वानादिदेश महीपतिः ।
दयित खण्डपरशोधनुरानीयतामिति ॥ ४९७ ।।
अथाष्टचक्रशकटाकृष्टमञ्जूषिकाश्रितम् ।
शतैः पञ्चभिरानीतं नृणां धनुरदृश्यत ॥ ४९८ ॥
ततो जनकराजेन विनयेन निवेदितम् ।
विश्वामित्रो धनुर्दृष्ट्वा जगाद रघुनन्दनम् ॥ ४९९ ॥
इदं तत्रिषु लोकेषु विश्वतं राम कार्मुकम् ।
गृहाण क्रियतामस्य व्यापारः पुरुषोचितः ।। ५००॥
इत्युक्ते मुनिना रामस्तत्प्रणम्यैश्वरं धनुः ।
जग्राह लीलया कुर्वन्विस्मयाकुलितं जगत् ॥ ५०१ ॥
स तस्य शुशुभे दिव्यकार्मुकप्रणयी भुजः ।
रक्ताङ्गदांशुवलयव्यालैः पशुपतेरिव ॥ ५०२ ॥
क्षणादधिज्यमादाय धनुरद्भुतविक्रमः ।
धन्विना सह दर्पण समाकृष्य बभञ्ज तत् ॥ ५०३ ॥


१.'लज्जा' ख-ग..