पृष्ठम्:रामायणमञ्जरी.pdf/५०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९५
रामायणमञ्जरी।


अथाश्रमं समभ्येत्य शुक्रः पुत्रीमधोमुखीम् ।
ददर्श साश्रुनयनामरजां रजसा प्लुताम् ॥ १०९५ ।।
शुक्रशापात्पपाताथ पुरे दण्डस्य भूपते ।
पांशुवृष्टिर्यया दग्धः स सराष्ट्रः क्षयं ययौ ॥ १०९६ ।।
उदभूद्दण्डकारण्यं दण्डशापाज्जनोज्झितम् ।
अरजायाः पदं तत्र पित्रादिप्टमभूत्सरः ॥ १०९७ ॥
इति दण्डशापः ॥४३॥
इत्याश्चर्यकथां श्रुत्या पूजितः कुम्भयोनिना ।
प्रभाते तं समामन्त्र्य राघवः स्वपुरीं ययौ ॥ १०९८ ॥
राजधानीं प्रविश्याथ सभाभवनमेत्य सः ।
रत्नासनस्थितो द्वाःस्थं दिदेशानुजदर्शने ॥ १०९९ ।।
ततः प्रविश्य सोत्कण्ठौ नृपौ भरतलक्ष्मणौ ।
प्रणम्य ब्राह्मणशिशोजीवितावाप्तिमूचतुः ॥ ११०० ।।
तौ कथान्ते रघुपतिर्बभापे यशसां निधिः ।
राजसूयसमारम्भे वर्तते मे मनोरथः ॥ ११०१ ।।
अशेषविजयप्राज्यं राज्यं तदभिधीयते ।
यज्ञोपकरणे यस्मिन्प्रवृद्धा धनसंपदः ॥ ११०२॥
सुकृतोद्यानवल्लीभिः किमेताभिर्विभूतिभिः ।
यशोभिः पुष्पिता दिक्षु राजसूयोज्ज्वलैर्न या ॥ ११०३ ॥
श्रुत्वैतद्भरतो धीमात्राममूचे कृताञ्जलिः ।
अर्हस्त्वमेव भूपाल राजसूयस्य कोऽपरः ।। ११०४ ।।
यज्ञानां प्रवरश्चासौ भवानिव महीभुजाम् ।
अन्ते तु राजसूयस्य भवत्येव जगत्क्षयः ॥ ११०५ ॥
सोमस्य राज्ञः संपूर्णे राजसूये सुधानिधेः ।
क्षयोऽभूज्ज्योतिषां घोरः संग्रामे तारकामये ॥ ११०६ ।।
वरुणस्यापि निर्वृत्ते तस्मिन्यज्ञे जलौकसाम् ।
दारुणः सर्वलोकानां संहारः संगरेऽभवत् ।। ११०७ ॥