पृष्ठम्:रामायणमञ्जरी.pdf/५०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९६
काव्यमाला।


शतक्रतोरपि पुरा यस्मिन्यज्ञे महीयसि ।
देवासुरमभूयुद्धं चिरं विश्वक्षयक्षमम् ॥ ११०८ ॥
यज्ञान्ते सर्वभूतानां हरिश्चन्द्रस्य भूपतेः ।
बभूवाडीवके युद्धे स्थावराणां च संक्षयः ॥ ११०९ ।।
तस्मात्त्वं पृथिवीपाल सर्वसत्त्वहिते रतः ।
त्रैलोक्यायासदं यज्ञं तं कथं कर्तुमर्हसि ॥ १११०॥
भरतेनेत्यभिहिते प्रशशंस सुह्रन्नृपः ।
अभयं सर्वभूतानां यज्ञः क्रतुशताधिकः ॥ ११११
ततो जगाद सौमित्रिः प्रणतः पृथिवीपतिम् ।
राजसूयसमो राजन्नश्वमेधो महामखः ॥ १११२ ॥
बभूव विश्वविजयी वृत्रो नाम महासुरः ।
शतयोजनविस्तीर्णो घनस्तद्द्विगुणोन्नतः ॥ १११३ ॥
विष्णुनाप्यायतबलस्तं शक्रस्तपसि स्थितम् ।
तदाविष्टेन वज्रेण जघान घनविक्रमम् ॥ १११४ ।।
आलिलिङ्ग ततः शक्रं ब्रह्महत्या पिशाचिका ।
अदृश्यः सर्वभूतानामाक्रान्तः सोऽभवद्यथा ॥ १११५ ॥
ततो विष्णुगिरा देवाः शक्रं किल्बिषशान्तये ।
अश्वमेधे कृतोद्योगास्तं गत्वा चक्रिरे स्फुटम् ॥ १११६ ॥
संपूर्णे विधिवत्तस्मिन्नश्वमेधे शतक्रतोः ।
सुरैश्चतुर्धा विन्यस्ता ब्रह्महत्या मुमोच तम् ॥ १११७ ॥
जलस्थिता विशत्येव सा तत्राशुचिकारणम् ।
वृक्षेषु च स्थिता वृक्षच्छेत्तारं यातु पर्वसु ॥ १११८ ॥
रजस्वलासु नारीषु स्थित्वा विशति तद्गतम् ।
स्थिता चतुर्थेनांशेन सा ब्राह्मणवधे स्वयम् ॥ १११९ ॥


१. 'द्यया' स्यात्, २. चतुर्मास्था पूर्णोदनदीपु इत्यर्थः,