पृष्ठम्:रामायणमञ्जरी.pdf/५०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९७
रामायणमञ्जरी।


भागैश्चतुर्भिरायातं तस्यां देवैः सुरेश्वरः ।
प्रभावादश्वमेधस्य पुनः स्वपदमाययौ ।। ११२० ॥
इति वृत्रोपाख्यानम् ॥ १४ ॥
कथितं लक्ष्मणेनैतदाकर्ण्य रघुनन्दनः ।
उवाच हर्षपेयूषं स्मृतकान्त्या सृजन्निव ॥ ११२१ ॥
सत्यमेतद्यदेवोक्तं सुमित्रानन्दन त्वया ।
अश्वमेधसमं लोके विद्यते न हि पावनम् ॥ ११२२ ।।
श्रूयते किल पुत्रोऽभूत्कर्दमस्य प्रजापतेः ।
इडो नाम क्षितिपतिर्बाह्लीकेषु यशोनिधिः ॥ ११२३ ॥
स विश्वविजयो राजा प्रजासंरक्षणव्रतः ।
सोमवत्सर्वभूतानां बभूव प्रियदर्शनः ॥ ११२४ ।।
ततः कदाचित्पुप्पेषुमित्रे चैत्यमहोत्सवे ।
स सैन्यकानने राजा चचार मृगयारसात् ।। ११२५ ॥
नानाकुसुमसंछन्ननवकाननकौतुकात् ।
स स्कन्दजन्मवसुधां रौक्मं शरवणं ययौ ॥ ११२६ ।।
श्रीकण्ठस्तत्र भगवाञ्शेखरेन्दुप्रभामृतैः ।
जीवयन्निव पुष्पेषु विजहार सतीसखः ।। ११२७ ॥
स्वैरिणः शासनात्तत्र देवस्य गिरिजापतेः ।
स्त्रीत्वं प्रापुर्गणाः सर्वे खगवृक्षमृगैः सह ।। ११२८ ॥
सर्वभूतगणे तत्र स्त्रीभूते सचराचरे ।
विललास विलासाङ्कः शशाङ्काभरणो भवः ।। ११२९ ॥
तं देशं भूपतिः प्राप्य सभृत्यबलवाहनः ।
सहसा विस्मितमयः स्त्रीरूपः समपद्यत ।। ११३० ॥
स रुद्रशासनं ज्ञात्वा तमेव शरणं गतः ।
उपोपितश्चिरं स्तोत्रजपध्यानरतोऽभवत् ।। ११३१ ।।


१. स्पृश' क.