पृष्ठम्:रामायणमञ्जरी.pdf/५०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९८
काव्यमाला।


तमुवाच ततो देवः प्रहस्य गिरिजापतिः ।
पुरुषत्वं विना राजन्यदभीष्टं तदुच्यताम् ॥ ११३२ ॥
एतदाकर्ण्य भूपालः किंचिद्भग्नमनोरथः ।
प्रत्याख्यातो भगवता भवानीं शरणं ययौ ॥ ११३३ ॥
मासं भविष्यसि वधूः पुमान्मासं भविष्यसि ।
मासि मासि निजं रूपमतीतं न स्मरिष्यसि ॥ ११३४ ॥
इति देव्या वचः श्रुत्वा स्त्रीभूतैः सहितोऽनुगैः ।
स गत्वान्यवनं दिव्यं ददर्श रुचिरं सरः ॥ ११३५ ॥
तस्येशशासनात्त्यक्ततनोरिव मनोभुवः ।
अभूदुच्चकुचाभोगजघनाभरणं वयुः ॥ ११३६ ॥
सा नूपुररवाकृष्टकलहंसाकुला शनैः ।
चचार सरसस्तीरे श्रीरिवाम्भोरुहोदरात् ॥ ११३७ ॥
ततः सोमसुतः श्रीमान्विपुले तपसि स्थितः ।
बुधो रूपनिधिः कान्तां तामपश्यत्सुलोचनाम् ॥ ११३८ ॥
आताम्रपाणिनलिनां चरणारुणितावनिम् ।
दृष्ट्वा जहर्ष विम्बोष्ठीं स तां रागमयीमिव ।। ११३९ ।।
ततः स्मरशरासारपातपक्षानिलैरिव ।
न बभूव धृतेः पात्रं बुधः प्रोद्धूतमानसः ॥ ११४० ॥
अथाङ्गना तदनुगाः स जगाद प्रियं वचः ।
किं नार्यः शैलकटके वासोऽस्मिन्नभिधीयते ॥ ११४१ ॥
एष निर्झरझाङ्काररम्यपुष्पफलोचितः ।
देशः किंपुरुषैस्तत्र क्रियतां प्रियसंगमः ॥ ११४२ ॥
इति तस्य गिरा शैलतटे किंपुरुषाश्रिते ।
किं नार्य इति तेनोक्ताः किंनार्यस्ता ययुः स्त्रियः ॥ ११४३ ॥
ततः स तासु यातासु कान्तां तामेत्य सादरः ।
उवाच नवलावण्यपण्यविक्रीतमानसः ।। ११४४ ॥