पृष्ठम्:रामायणमञ्जरी.pdf/५०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९९
रामायणमञ्जरी।


आनन्दस्यन्दिनी कान्तिरियं तव सितस्मिते ।
विभाति व्याहता लोके कीर्ति मन्ये मनोभुवः ॥ ११४५ ॥
तस्य कीर्णसुधासिन्धोरिन्दोः शर्वशिरोमणेः ।
स्मरमित्रस्य पुत्रोऽहं वुधः सुभ्रु भजस्व माम् ॥ ११४६ ॥
एतदाकर्ण्य मधुरं सा बुधस्य सुमध्यमा ।
मन्मथेन वशं नीता तथेति प्रत्यपद्यत ।। ११४७ ॥
सौभाग्यभामिनी तेन रममाणा घनस्तनी ।
सा मेने माधवं मासं नीतं क्षणमिव क्षणात् ॥ ११४८ ॥
मासावसाने शयनादुत्क्षिप्ता सहसैव सा ।
बभूव विस्मृतातीतस्त्रीभावः स महीपतिः ।। ११४९ ॥
सोऽपृच्छदुधमभ्येत्य राजाहं मृगयारसात् ।
प्रविष्टः कानने सैन्यं न जाने तत्क्व मे गतम् ।। ११५० ।।
सैन्यहीनः क्व गच्छामि वनेऽस्मिन्निवसाम्यहम् ।
राज्यं ममानुजो वीरः शशिबिन्दुः करिष्यति ।। ११५१ ॥
इत्युक्ते भूभुजा तेन बुधस्तं प्रत्यभाषत ।
शिलावर्षेण गहने भृत्यास्तत्र निसूदिताः ।। ११५२ ॥
त्वया सुप्तेन न ज्ञाता भविष्यन्त्यपरेषु नः ।
कंचित्कालं प्रतीक्षस्व वनेऽस्मिन्पूजितो मया ॥ ११५३ ॥
बुधेनेति ब्रुवाणेन स कुर्वन्विबुधाः कथाः ।
मासे प्रयाते कान्तैव साभूद्विस्मृतपौरुषा ॥ ११५४
अथ मासं सिपेवे सा बुधं निधुवनैषिणी ।
मासं च पुरुषो भूत्वा चक्रे पौराणिकाः कथाः ॥ ११५५ ॥
ततः सा नवमे मासि पूर्णे पूर्णेन्दुसुन्दरम् ।
असूत सूर्यसंकाशं पुरूरवसमात्मजम् ॥ ११५६ ॥
तं जातमात्रं निक्षिप्य पुत्रं चन्द्रगृहे बुधः ।
चकार भूपतेश्चिन्तां स्त्रीभावविनिवृत्तये ॥ ११५७ ।।


१. 'व्याहतां' स्यात्.