पृष्ठम्:रामायणमञ्जरी.pdf/५०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
काव्यमाला।


स समानाप्य संवर्तच्यवनप्रमुखान्मुनीन् ।
रुद्रप्रसादनोपाये क्रियां तां तामचिन्तयत् ॥ ११५८ ॥
स्वेच्छागतः पिता राज्ञा कर्दमोऽथ प्रजापतिः ।
तानुवाचाश्वमेधेन तुष्टोऽस्त्येव महेश्वरः ॥ ११५९ ॥
ततो बुधाश्रमे तस्मिन्संपूर्णे नृपतेः ऋतौ ।
तुतोष शर्वस्तद्वाक्यात्पुरुषश्चाभवन्नृपः ।। ११६० ॥
प्रतिष्ठानपुरे जातस्तत्पुत्रोऽभूत्पुरूरवाः ।
तस्मान्नास्त्यश्वमेधस्य प्रभावे सदृशः क्रतुः ॥ ११६१ ॥
राघवेनेत्यभिहिते हृष्टौ भरतलक्ष्मणौ ।
अश्वमेधसमारम्भे जातोत्कण्ठौ ननन्दतुः ॥ ११६२ ॥
इतीडापुरुषीयम् ॥ ४५ ॥
ततः समाययुः सर्वे मुनयो विनयावनेः ।
यज्ञारम्भे नरपतेर्ब्रह्मलोकाद्दिवो भुवः ॥ ११६३ ॥
उत्सृष्टे लक्ष्मणोदारे हये लक्ष्मणरक्षिते ।
आहूते सारगैर्दूतैः सुग्रीवे सविभीषणे ॥ ११६४ ॥
रामशासनमानेन प्राप्तेष्वखिलराजसु ।
गोमत्यां नैमिषतटे कृते यज्ञनिवेशने ॥ ११६५ ॥
राशिभिर्हेमरत्नानां पूरिते गिरिसंनिभैः ।
पृथक्पृथग्मुनिवरैर्वाटेष्वध्यासितेषु च ॥ ११६६ ।।
अवर्ततातिशक्रस्य राज्ञो यज्ञः सदोचितः ।
नानार्थिसार्थसंपूर्णसर्वाशाकल्पपादपः ॥ ११६७ ॥
सोमं स्वप्नेऽपि नायाति दूरे वरुणशक्रयोः ।
सा श्रीः कुतः कुबेरस्य यज्ञे रामस्य याभवत् ॥ ११६८ ॥
तत्र हेममयी सीता कुशलैः शिल्पिभिः कृता ।
शुशुभे राघवप्रीत्या वनात्स्वयमिवागता ॥ ११६९ ।।
तस्थौ शिष्यर्वृतस्तत्र वाल्मीकिस्तेजसां निधिः ।
द्रष्टुं मुनिसभां प्राप्तः साक्षादिव प्रजापतिः ॥ ११७० ॥