पृष्ठम्:रामायणमञ्जरी.pdf/५१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०१
रामायणमञ्जरी।


मुनेस्तस्याज्ञया तत्र कुमारौ कान्तविग्रहौ ।
गन्धर्वाविव लोकेषु श्रवणामृतवर्षिणौ ॥ ११७१ ।।
गातुं रामयशः प्राप्तौ कैलासादिव किंनरौ ।
मूर्तौ पुष्पाकरस्येव मासौ षट्पदनादितौ ॥ ११७२ ।।
वीणावेणुस्वनेनैव मीलितं मूर्छनाजुषा ।
कलकण्ठौ कुशलवौ रामायणमगायताम् ।। ११७३ ॥
उद्गीतश्रवणाश्चर्यविस्मयालोलमौलयः ।
क्षीबा इवाभवन्सर्वे पूर्णमानानना जनाः ।। ११७४ ।।
राघवः सानुजो भूपा मुनयः कपिराक्षसाः ।
चित्रन्यस्ता इव बभुः काव्ये गीते च विस्मिताः ॥ ११७५ ॥
तौ वीक्ष्य विस्मयालोललोके सदसि सर्वतः ।
बभूवानन्दसंकल्पमयो जल्पः परस्परम् ॥ ११७६ ॥
अहो गीतगहो काव्यमहो रूपं कुमारयोः।
न विनस्त्रिदिवे ब्रह्मभुवने वा ययोर्यथा ॥ ११७७ ।।
रामस्य सदृशावेतौ दर्पणे विम्बिता इव ।
जटावल्कलमात्रेण वैलक्षण्यमुपागतौ ॥ ११७८ ।।
रामस्य तनयावेव यदि विद्याधराविमौ ।
तत्किं विद्याधरोत्सङ्गे श्रुतोऽस्माभिर्न भूपतेः ॥ ११७९ ।।
इति तेषां कथयतां रामस्य चरितं सदा ।
कर्मान्तरेषु यज्ञेषु सर्गबन्धमगायताम् ॥ ११८० ॥
न तौ जगृहतुर्दत्तं बहु हेम महीभुजा ।
धने पतति न स्निग्धा दृष्टिरुन्नतजन्मनाम् ।। ११८१ ।।
केनेदं विहितं काव्यमिति पृष्टौ महीभुजा ।
वाल्मीकिना कृतमिति प्रणतौ तौ तमूचतुः ॥ ११८२ ।।
ततस्तौ तनयौ ज्ञात्वा चक्षुपा हृदयेन च ।
राघवः साश्रुनयनः प्रोवाच दयितां स्मरन् ॥ ११८३ ।।