पृष्ठम्:रामायणमञ्जरी.pdf/५११

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०२
काव्यमाला।


हनुमत्प्रमुखाः सर्वे वाल्मीकिं तपसां निधिम् ।
विज्ञापयन्तु वचसा मम निर्घृणचेतसः ॥ ११८४ ॥
निर्दोषां भगवञ्जाने जानकीं जनसंभवात् ।
अपवादान्मया त्यक्ता कीर्तिलुब्धेन केवलम् ॥ ११८५ ।।
सा ते सदसि पूर्णेऽस्मिन्नेकीभूते जगन्मये ।
करोतु शपथं सीता प्रत्ययं यात्वयं जनः ।। ११८६ ॥
वचनं राघवस्यैतद्वाल्मीकेस्ते न्यवेदयन् ।
वाल्मीकिरपि तत्सर्वं तथेति प्रत्यपद्यत ॥ ११८७ ।।
ततः प्राप्ते मुनिमये व्याप्ते सदसि राजभिः ।
जानक्याः शपथं द्रष्टुमेकीभूतोऽभवज्जनः ॥ ११८८ ॥
अदृश्यत ततः सीता सास्त्रा किंचिदधोमुखी ।
सरस्वतीव ब्रह्माणं वाल्मीकिमनुगामिनी ॥ ११८९ ॥
ह्रिया मुहुः करोत्सृष्टकषायायतलोचना ।
दृष्ट्वा हेममयीं पत्नीमिव संजातमत्सरा ।। ११९० ॥
पूज्यमाना मुनिवरैरिक्ष्वाकुकुलपावनी ।
भूभृत्समागमे तस्मिन्गङ्गेवाकुलतां गता ।। ११९१ ॥
ततो हालाहलाशब्दस्तां दृष्ट्वा सासुलोचनाम् ।
बभूव सर्वभूतानां साधुवादपुरःसरः ॥ ११९२ ।।
जनमध्यमथासाद्य वाल्मीकिरवदन्मुनिः।
इयं सीता सती राम प्रत्ययं गन्तुमागता ।
नभस्तटीव पङ्केन लिप्ता वितथवादिभिः ॥ ११९३ ॥
यदि राम महीपाल मुनयो मुनयो वयम् ।
असत्यं यदि नास्मासु तत्सीता शीलशालिनी ॥ ११९४ ।।
इमौ ते तनयौ राम कामपुष्पाकराविव ।
मनस्तत्रैव नेत्रे च वयं धर्मश्च साक्षिणः ॥ ११९५ ।।
इत्युक्ते मुनिना तत्र कृतासनपरिग्रहे ।


१. 'न्मुनये' शा..