पृष्ठम्:रामायणमञ्जरी.pdf/५१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०५
रामायणमञ्जरी।


ततः पुरीद्वयं रामश्चक्रे लक्ष्मणपुत्रयोः ।
अङ्गदस्य च वीरस्य चन्द्रकेतोश्च भूपतेः ॥ १२२१ ॥
अङ्गदस्याङ्गदीयाख्या साभूद्भूमिपतेः पुरी।
चन्द्रवत्यभिधा चन्द्रकेतोरप्यपराभवत् ॥ १२२२ ॥
इति लक्ष्मणपुत्राभिपेकः ॥ ४९ ॥
ततः कदाचिदभ्येत्य कालस्तापसविग्रहः ।
विवेश वेश्म रामस्य लक्ष्मणेन निवेदितः ॥ १२२३ ।।
रामेण पूजितः सोऽथ कृतासनपरिग्रहः ।
अवदन्निर्जने किंचिद्वक्तुकामोऽस्मि भूपते ।। १२२४ ॥
अस्मिन्यः प्रविशेन्मन्त्रे स वध्य इति संविदा ।
लक्ष्मणेनेत्यभिहिते तयोः स्वैरमभूत्कथा ॥ १२२५ ।।
ततो जगाद भूपालं तपसा प्रश्रयात्पुनः ।
विसृष्टोऽहं भगवता स्वयं कमलजन्मना ।। १२२६ ॥
यः स ते नाभिजाज्जातः पद्मनाभसरोरुहात् ।
कृतकृत्यं जगत्कार्ये त्वामाह स चतुर्मुखः ॥ १२२७ ।।
कैटभारे जगद्भारं हरता रक्षितं त्वया ।
विलुण्ठ्यमानं रक्षोभिर्देवानां विशदं यशः ॥ १२२८ ॥
एकादशसहस्राणि वर्षाणां राज्यमूर्जितम् ।
कृतं तद्वैष्णवं धाम निजमासाद्यते न किम् ।। १२२९ ॥
शक्तिर्विश्वपरित्राणे विश्वनिर्माणशालिनी ।
सुरकार्यैकनिरता न त्वया रहितस्य मे ॥ १२३० ॥
प्रजापतेरिति वचस्तुभ्यमावेदितं मया ।
कालोऽहं पूर्वतनयस्तव मायासमुद्भवः ॥ १२३१ ॥
एतत्कालवचः श्रुत्वा प्रहस्योवाच राघवः ।
यदाहं भगवान्ब्रह्मा पुत्र सर्व करोमि तत् ।। १२३२ ॥
इति कालवाक्यम् ।। ५० ॥