पृष्ठम्:रामायणमञ्जरी.pdf/५१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
काव्यमाला ।


रामे स्वपदमारूढे ते जनाः सरयूजले ।
त्यक्तमोहाः प्रभालोलैर्विमानैस्त्रिदिवं ययुः ।। १२५९ ।।
सुग्रीवप्रमुखाः सर्वे त्रिदशांशाः प्लवङ्गमाः ।
तां तां मूर्तिं समाश्रित्य स्वं स्वं धाम प्रपेदिरे ॥ १२६० ॥
शून्या वर्षशतान्यासीदयोध्या रामवर्जिता ।
न यावदृषभो नाम बभूव भुवि भूपतिः ॥ १२६१ ॥
कर्णे कृताश्च हृदये निहिताश्च सद्भि-
र्मूर्ध्ना धृताश्च मणयो रुचिरा इवैते ।
रामस्य चारुचरितामृतदुग्धसिन्धो-
रानन्दचन्द्रजनकस्य गुणा जयन्ति ॥ १२६२ ॥
इति दुरितविरामः कीर्तिकान्ताभिरामः
सुजनहृदयरामः कोऽप्यभूद्यः स रामः ।
प्रकृतमनुसरामः पापपाशं तरामः
सुकृतभुवि चरामस्तस्य नाम स्मरामः ॥ १२६३ ।।
इति वर्गारोहणम् ॥ ५२ ॥

                    इति क्षेमेन्द्रविरचिते रामायणकथासारे उत्तरकाण्डः समाप्तः ।




भोगार्हे नवयौवनेऽपि विपिने चीराम्बरो राघव-
स्तत्राप्यस्य परेण दारहरणं क्लेशस्तदन्वेषणे ।
संप्राप्तापि जनापवादरजसा त्यक्ता पुनर्जानकी
सर्व दुःखमयं तदस्तु भवतां श्लाघ्यो विवेकोदयः ॥१॥
स वः पुनातु वाल्मीकेः सूक्तामृतमहोदधिः ।
ओंकार इव वर्णानां कवीनां प्रथमो मुनिः ॥२॥
कश्मीरेष्वभवत्सिन्धुजन्मा चन्द्र इवापरः ।
प्रकाशेन्द्रः स्थिरा यस्य पृथ्व्यस्य कीर्तिकौमुदी ॥ ३ ॥
सदा दानार्द्रहस्तेन महता भद्रमूर्तिना ।
साधु कुञ्जरिता येन प्राप्ता कीर्तिपताकिना ।। ४ ।।