पृष्ठम्:रामायणमञ्जरी.pdf/५२

पुटमेतत् सुपुष्टितम्
४३
रामायणमञ्जरी।

समुद्धूताब्धितुल्येन तस्य सैन्येन सर्पता ।
दिशः शस्त्रप्रभाजालवीचीवलयिता बभुः ।। ५१६ ॥
मिथिलामथ संप्राप्तं तं राजा जनकः स्वयम् ।
प्रत्युद्ययौ पुरस्कृत्य श्लाघ्यसंबन्धिसंपदम् ॥ ५१७ ॥
रत्नैरभ्यर्चितस्तेन प्रवेश्येक्ष्वाकुनन्दनः ।
बभौ मुनिसभासीनश्चतुर्भिस्तनयैः सह ॥ ५१८॥
ततः प्रणम्य पूजार्हान्वशिष्ठप्रमुखान्मुनीन् ।
प्रशंसञ्जन्म जनको जगाद जगतीपतिम् ॥ ५१९ ॥
अहो बतावतंसत्वं प्राप्तः पुण्यवतामहम् ।
वशिष्ठो यस्य भगवान्भवांश्चाभ्यागतो गृहान् ॥ ५२० ॥
द्वावेव सुकृतोदारौ पितरौ पुत्रिणां वरौ ।
पुत्रेण राघवेन त्वं विष्णुना स च कश्यपः ॥ १२१ ॥
विभाति भूरियशसः कस्यान्यस्य यथा तव ।
भुवनत्रितयोद्गीतं पुत्रमानोन्नतं शिरः ।। ५२२ ॥
गृहाण राघवाय त्वं शौर्यशुल्कां सुतां मम ।
गुरवो दूततां याताः संबन्धेऽस्मिन्मिथो गुणाः ॥ ५२३ ॥
जनकेनेत्यभिहितो हर्षाद्दशरथोऽवदत् ।
बहु मन्यामहे कन्यां त्वया प्रीतिमिवार्पिताम् ॥ ५२४ ॥
कुले सुविपुले जन्म विद्याविद्योतिता मतिः ।
महाजनैश्च संबन्धः फलं गुरुजनाशिषाम् ॥ १२५ ॥
गुणसौभाग्ययोग्योऽयं भाग्यानां प्रथमोदयः ।
रामस्य श्रेयसे सक्तो यदसौ कौशिको मुनिः ॥ ५२६ ॥
(यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ॥९२७)
इत्युक्ते रघुनाथेन मुनयः प्रणयार्जिताः ।
प्रशशंसुः परिणयं कौशिकं च तपोनिधिम् ।। ५२८ ॥


१. 'प्रविश्य' स्यात्. २. 'राघवेण' स्यात्. ३. 'यशः' ग. ४. ख-पुस्तके नोपलभ्यते.