पृष्ठम्:रामायणमञ्जरी.pdf/५३

पुटमेतत् सुपुष्टितम्
४४
काव्यमाली।

यथार्हं पूजितस्याथ जनकेन महीभुजः ।
आनन्देन्दुसुधासिक्ता सुखेन रजनी ययौ ।। ५२९ ॥
पुनः सभामागतयोः प्रभाते भूपयोर्द्वयोः ।
बभूवानन्तसामन्तैः संघर्ष इव संपदाम् ॥ ५३० ॥
जनकेन विसृज्याथ शतानन्दं पुरोधसम् ।
निजोऽनुजः समभ्यायात्समाहूतः कुशध्वजः ॥ ५३१ ॥
मूकतां वन्दिवृन्देऽथ श्रिते वेत्रभृतां गिरा ।
वशिष्ठो वदतां श्रेष्ठः प्रस्तावोचितमभ्यधात् ।। ५३२ ॥
राजन्प्रवर्ततां पुत्र्यास्तव वैवाहिको विधिः ।
शुद्धाभिजनयोः श्लाघ्यसंबन्धो युवयोरयम् ॥ ५३३ ॥
अव्यक्तप्रभवस्यासीन्मरीचिर्ब्रह्मणः सुतः ।
कश्यपस्तस्य तनयो विवस्वांस्तस्य चात्मनः ।। ५३४ ॥
मनुर्विवखतः पुत्र इक्ष्वाकुर्मानवो नृपः ।
पुत्रो विकुक्षिरेक्ष्वाको बाणस्तस्याभवत्दसुतः ॥ ५३५ ॥
पुत्रोऽनरण्यस्तस्याभूत्पृथुस्तस्मादजायत ।
ततस्त्रिशङ्कुरभवद्भुन्धुमारस्तदात्मजः ।। ५३६ ।।
युवनाश्वः सुतस्तस्य मांधाता तत्सुतो नृपः ।
सुसंधिस्तनयस्तस्य ध्रुवसंधिस्ततोऽभवत् ॥ ५३७ ॥
तत्सूनुर्भरतो राजा तस्याभूदसितः सुतः ।
गरेण सहजातश्च तत्पुत्रः सगरोऽभवत् ॥ ५३८ ॥
तस्यात्मजोऽसमञ्जश्च पुत्रस्तस्यांशुमानपि ।
दिलीपस्तस्य दायादस्तस्य पुत्रो भगीरथः ।। ५३९ ॥
काकुत्स्थस्तस्य तनयो रघुस्तस्यात्मजो नृपः ।
कल्माषपादस्तत्सूनुः शङ्खनो नाम तत्सुतः ॥ ५४० ॥
सुदर्शनस्तस्य सूनू रक्तवर्णस्तदात्मजः ।
शीघ्रगस्तस्य पुत्रोऽथ निमिस्तस्याभवत्सुतः ॥ ५४१ ॥