पृष्ठम्:रामायणमञ्जरी.pdf/५७

पुटमेतत् सुपुष्टितम्
४८
काव्यमाला।

अथादृश्यत दिग्दाहदारुणोदरमम्बरम् ।
वडवाग्निशिखोद्गारघोरं रूपमिवाम्बुधेः ॥ ५७७ ॥
गम्भीरमोहनिस्पन्दे संदेहान्दोलिते मुहुः ।
सैन्ये संघ इवाग्नीनां भार्गवः प्रत्यदृश्यत ।। ५७८ ॥
ज्वलज्ज्वलनतुल्येन कुठारेणांससङ्गिना ।
शिखरासक्तसूर्यस्य सुमेरोस्तर्जयन्प्रभाम् ॥ ५७९ ॥
संरम्भश्लथबन्धेन जटाजूटेन बभ्रुणा ।
लम्बविद्युल्लताजालभीमः सांध्य इवाम्बुदः ॥ ५८० ॥
प्रोन्मिषद्विषमाकोपकम्पप्रस्फुरिताधरः।
कुर्वन्क्षत्रान्तकालानामसकृद्गणनामिव ॥ ५८१ ॥
वहन्नर्जुनदोर्दण्डमण्डलच्छेदकोविदे।
खण्डधारे कुठाराग्रे मृत्युदन्तावलीमिव ।। ५८२ ।।
दधानस्तत्क्षणाधिज्यं प्राज्यमाभासुरं धनुः ।
पार्श्वे विश्वक्षयायातपरिवेशमिवांशुमान् ।। ५८३ ॥
करेणान्दोलयन्नुद्यत्प्रभापरिकरं शरम् ।
क्षत्रियक्षयसंसक्तरक्तधारमिवाभितः ॥ ५८४ ॥
वसिष्ठमुख्या मुनयस्तं वीक्ष्य भयशङ्किताः ।
स्वस्तीति वादिनस्तूर्ण पूजामस्य प्रचक्रिरे ॥ ५८५ ॥
भार्गवोऽपि समभ्येत्य राघवं घोरविक्रमः ।
उवाच लोकान्महतः सहसालोकयन्निव ॥ ५८६ ॥
राम चण्डीशकोदण्डे कृतं किमिति सांप्रतम् ।
यत्त्वया तदहं मन्ये निखिलं बालचेष्टितम् ॥ ५८७ ॥
भवता तदसंभाव्यं शांभवे चायुधे कृतम् ।
नमः कालाय वलिने येनेदं जीर्यते जगत् ॥ ५८८ ।।


१. 'लम्वविद्युल्लताभीमो घोरः सांध्य' शा०. २. 'करेण कलयन्घोर' शोधि०.

३. 'क्षोभ' शा..