पृष्ठम्:रामायणमञ्जरी.pdf/५८

पुटमेतत् सुपुष्टितम्
४९
रामायणमञ्जरी।

दृश्यतामद्भुततरं ममेदं वैष्णवं धनुः ।
ध्रियतां यदि वीरोऽसि वीरोऽसि यदि कृष्यताम् ॥ ५८९॥
अस्मिन्विज्ञातसारस्त्वं ममापि समरे शिशो।
क्षत्रियक्षयकालाग्नेर्यास्यसि द्वन्द्वयोग्यताम् ।। ५९० ॥
इति ब्रुवाणे सावज्ञं जमदग्न्ये ससंभ्रमः ।
पुत्रप्रीत्या दशरथस्तमुवाच कृताञ्जलिः ॥ ५९१ ॥
भवता वीतरागेण भगवन्ब्रह्मवादिना।
शस्त्रं शक्रपुरो न्यस्तं कोऽयं युद्धादरः पुनः ॥ ५९२ ॥
प्रदाय कश्यपाय त्वं महीं सगिरिसागराम् ।
संन्यासनिरतः कस्मादकस्माद्योद्धुमागतः ॥ ५९३ ।।
क्व सा मुनिप्रणयिनी पुण्या संतोषशीलता।
क्व चायं युद्धनिर्बन्धः कलुषः क्षत्रियोचितः ।। ५९४ ।।
विवेकः शमसंतोषौ क्षमा परहितोद्यमः।
सर्वत्र मैत्रमनसामुचितं हि महात्मनाम् ।। ५९५ ॥
स्निग्धा दृष्टिर्मनोमैत्री वाणी पीयूषवर्षिणी ।
एतास्ताः सत्यतपसां पुण्याः संतोषभूमयः ॥ ५९६ ॥
उक्ते दशरथेनेति तमनादृत्य भार्गवः ।
राममेवावदत्को हि क्रोधान्धः प्रभुरात्मनः ॥ ५९७ ॥
दिव्ये द्वे धनुषी राम शांभवं वैष्णवं तथा ।
शांभवं भवता भग्नं वैष्णवं मम वर्तते ॥ ५९८ ॥
धनुःप्रभवसंघर्षाद्वैकुण्ठशितिकण्ठयोः ।
पितामहोत्साहितयोरभवद्युद्धमुत्तमम् ॥ ५९९ ॥
ततः कार्मुकमत्युग्रमाकृष्टं त्रिपुरारिणा ।
हुंकारेण हरिश्चक्रे चित्रार्पितमिवाचलम् ॥ ६०० ॥
सभर्गे स्तम्भिते तस्मिन्कार्मुके कैटभारिणा ।
तत्प्रहारोद्यते विष्णौ विनयाद्वारिते सुरैः ॥६०१ ॥