पृष्ठम्:रामायणमञ्जरी.pdf/६०

पुटमेतत् सुपुष्टितम्
५१
रामायणमञ्जरी ।

गतिं हन्मि तवानेन लोकान्वा तपसार्जितान् ।
अमोघः सर्वथा विष्णोरयं घोरतरः शरः ॥ ६१५ ॥
इति वादिनि काकुत्स्थे सुरा ब्रह्मपुरःसराः ।
सदैत्यसिद्धगन्धर्वा द्रष्टुमद्भुतमाययुः ॥ ६१६ ॥
दिवाकर इवोदग्रे मण्डलीकृतकार्मुके।
राघवे भार्गवो दीप इवाभूद्विगतप्रभः ॥ ६१७ ॥
प्रतापहीनो निःस्पन्दश्चित्रन्यस्त इवाचलः ।
मन्दमन्दस्वरो रामं सोऽवदद्विनयान्वितः ॥ ६१८ ॥
न हन्तुमर्हसि गतिं मम राम महीयसीम् ।
आशां सेवाप्रणयिनीं कुलोन्नत इवेश्वरः ॥ ६१९ ॥
न कश्यपार्पितभुवो निवासोऽयं ममोचितः ।
महेन्द्रशैलं गच्छामि तूर्ण गगनवर्त्मना ॥ ६२० ॥
शरेण जहि मे लोकानमोघो ह्येष दुर्जयः ।
प्रभाव इव मूर्तस्ते न क्वचित्प्रतिहन्यते ॥ ६२१ ॥
धनुषोऽस्य निजं नाथं जाने त्वां विष्णुमच्युतम् ।
नीता मधुमुखा येन दैत्याः क्रोधोपहारताम् ॥ ६२२ ॥
इच्छामात्रेण जगतां प्रलयोदयकारिणा ।
न मे त्वया जितस्यापि लज्जाधूसरमाननम् ॥ ६२३ ॥
इत्युक्ते जामदग्न्येन शरं चिक्षेप राघवः ।
मधुमास इवाशेषा यश्चक्रे विशदा दिशः ॥ ६२४ ॥
ततः प्रदक्षिणीकृत्य रामं भृगुसुते गते ।
हस्ते वारिपते न्यस्ते राघवेण शरासने ॥ ६२५ ॥
हर्षव्याकोशमनसः सेना दशरथस्य सा ।
ससर्प पवनोद्भूतध्वजपट्टाट्टहासिनी ॥ ६२६ ॥
इति रामरामसमागमः ॥ १३ ॥
ततो महोत्सवोत्साहप्रमोदालिङ्गिताङ्गनाम् ।
प्रविवेश पुरीं भूरिभूषां भूमिपुरंदरः ॥ ६२७ ॥