पृष्ठम्:रामायणमञ्जरी.pdf/६१

पुटमेतत् सुपुष्टितम्
५२
काव्यमाला।

तत्र त्रिभुवनश्लाध्यलावण्यललिताननाम् ।
स्त्रियोऽपि जानकीं वीक्ष्य ययुरुत्कण्ठतामिव ।। ६२८ ।।
कौसल्याद्यास्ततो देव्यः पुत्रान्वीक्ष्य वधूसखान् ।
मूर्तिमद्भिरिवानन्दैर्मङ्गलैरुदिता बभुः ।। ६२९ ।।
सेयं सीता शशिमुखी रामोऽयं कमलेक्षणः ।
इत्यभूत्कौतुकोदारः सर्वत्र जननिःस्वनः ॥ ६३० ॥
इत्ययोध्याप्रत्यागमनम् ॥ १४ ॥
अथ रामस्य संभोगसुभगोऽभिनवोऽभवत् ।
मैथिलीवदनाम्भोजमधुपस्य रसोद्भवः ॥ ६३१ ॥
तयोर्मनोरथरथः प्रणयोदारसारथिः ।
प्रेमोपदिष्टेन पथा विवेश हृदयं स्मरः ॥ ६३२ ॥
नवं वयो वपुः कान्तं प्रेम प्रौढं तयोर्ययौ ।
संपूर्णगुणसाम्राज्ये रामस्यैकातपत्रताम् ॥ ६३३ ।।
केलिल्कान्तं वपुस्तन्व्याः पीतोच्छिष्टाधरं मुखम् ।
स्वेदोन्मृष्टं च तिलकं रामो मेने नवं नवम् ॥ ६३४ ॥
ततो मातामहपुरं भरतः पितुराज्ञया ।
शत्रुघ्नानुगतः प्रायन्मातुलेनाभियाचितः ।। ६३५ ॥
स तत्र गुणरत्नानां महोदधिरिवापरः ।
जग्राह सकलां विद्यां गुरुभ्यो विमलाशयः ॥ ६३६ ।।
सच्छास्त्राभिगमात्तस्य धर्मसंक्रान्तिदर्पणम् ।
मनो बभूव विशदं मार्जितं सुकृतैरिव ॥ ६३७ ॥
भरते सानुजे राज्ञः कैकेयस्य पुरे स्थिते ।
उत्कण्ठाकुलितो भेजे चिन्तां दशरथो नृपः ॥ ६३८ ॥
रामः सर्वगुणग्रामरमणीयोऽधिकं पितुः ।
हृदयोद्गीतचरितः प्रजानामभवत्प्रियः ॥ ६३९ ।।


१. 'रतोत्सवः' शोधित०.

२. 'जगत्ये' शोधित.. ३. 'पूजितः' शारदा०. -: