पृष्ठम्:रामायणमञ्जरी.pdf/६४

पुटमेतत् सुपुष्टितम्
५५
रामायणमञ्जरी।

कस्मान्महार्थान्विप्रेभ्यो राममाता प्रयच्छति ।
इति धात्री तया पृष्टा स्फुरितेव मुदावदत् ॥ ६६५ ॥
रामस्य भविता प्रातर्यौवराज्यमहोत्सवः ।
तच्छ्रुत्वा वज्रभिन्नेव दुःखिता मन्थरा ययौ ॥ ६६६ ॥
शैशवे किल रामेण पुरा प्रणयकोपतः ।
चरणेनाहता तत्र चिरं कोपमुवाह सा ॥ ६६७ ॥
निर्विशन्ती विषापूर्णभुजङ्गीव विभीषणा ।
कैकेयीमन्दिरं प्रायात्कुब्जा कुटिलचारिणी ॥ ६६८ ॥
विबोध्य शयनासक्तां कैकेयीं सा समभ्यधात् ।
कोषावेगसमुत्सृष्टगौरवव्याकुलाक्षरम् ।। ६६९ ।।
उत्तिष्ठ मूढहृदये कोऽयं निद्रादरस्तव ।
अथ वा निर्विवेकानां दुःखं विशति नान्तरम् ॥ ६७० ॥
अहो बतासि निःशल्या क्षीबेव प्राकृताङ्गना ।
दूरं प्रपातपतितं नात्मानमवबुध्यसे ।। १७१ ॥
सपत्नीसंगमे धृत्वा सौभाग्याभरणोद्धतम् ।
अधुना वह दौर्भाग्यलज्जाविनतमाननम् ॥ ६७२ ॥
मन्थराया वचः श्रुत्वा कैकेयी चकिता भृशम् ।
किंस्वित्ते कुशलं पत्युरिति पप्रच्छ तां पुनः ।। ६७३ ॥
साब्रवीत्किं न जानीषे भयं महदुपस्थितम् ।
रामस्य भविता प्रातर्यौवराज्यमहोत्सवः ॥ ६७४ ॥
अहो नु कुटिलाचारः पतिर्दशरथस्तव ।
कण्ठबद्धशिला यस्त्वां जलधौ क्षेप्तुमुद्यतः ॥ ६७५ ।।
सा त्वं भूपालमहिषी भूमिपालसुता सती ।
पुत्रराज्योर्जितां पश्य कौसल्यां प्रेमकारिणीम् ॥ ६७६ ॥
सुभगे केवलैर्वाक्यैर्लातासि महीभुजा ।
फलेन योजिता त्वद्य कौसल्या पुण्यभागिनी ॥ ६७७ ॥