पृष्ठम्:रामायणमञ्जरी.pdf/६५

पुटमेतत् सुपुष्टितम्
५६
काव्यमाला।

त्वदंशे राज्यविच्छेदमद्यैव निधनं वरम् ।
न तत्तुल्यं नृपद्वारे दर्शनावसरे क्षणम् ॥ ६७८ ॥
धिक्तवेदं वृथारूपं गुणसौभाग्यवर्जितम् ।
हैमीव पुत्रिका पत्युर्मन्ये त्वं नाम वल्लभा ॥ ६७९ ॥
कौसल्यातनयो राजा दासश्च भरतोऽधुना ।
श्रुत्वेति हृदयं किं ते दीर्यते न सहस्रधा ॥ ६८० ॥
मन्थराया वचः श्रुत्वा कैकेयी हर्षनिर्भरा ।
उवाच हेमाभरणं दत्त्वास्यै पारितोषकम् ॥ ६८१ ॥
दिष्टचाभिषेको रामस्य श्रूयते गुणशालिनः ।
स मे बहुमतः पुत्रो मन्थरे भरताधिकः ॥ ६८२ ॥
इति ब्रुवाणां कैकेयीं मन्थरा कोपकम्पिता ।
उत्सृज्याभरणं दूरे निःश्वस्योवाच दुःखिता ॥ ६८३ ॥
कथं विषादावसरे नृत्यस्युन्मादिनी यथा ।
प्रत्यासन्नविनाशानां प्राङ्नश्यन्त्यथ वा धियः ॥ ६८४ ॥
प्रभावः कुलमैश्वर्य शक्तिः कीर्तिश्च शाश्वती ।
नश्यत्येकपदे यस्य क्षयस्तस्य महोत्सवः ॥ ६८५ ॥
शोच्या न शोचसि व्यक्तं मूढे दैवविमोहिता ।
अभ्रपात इव प्रातर्भविता तस्य दुःसहः ॥ ६८६ ॥
चित्रं स्निग्धासि रामेऽपि परपुत्रकवत्सता ।
हरिणो जननीं वेत्ति न हि व्याघ्रो मृगाशनः ॥ ६८७ ॥
रक्षणीयोऽधुना तावद्भरतो रामविक्रमात् ।
राज्यमेतावदेवास्य यद्गूढं न निपात्यते ॥ ६८८ ॥
श्रुतवत्यसि यश्चक्रे बहुमायः पुरंदरः ।
भ्रातॄणां दितिपुत्राणां नागानां वा खगेश्वरः ॥ ६८९ ॥
वक्रं श्रुत्वेति कुब्जाया वचनं हृदयोपमम् ।
चक्रे रामस्य कैकेयी गुणश्लाघां पुनः पुनः ॥ ६९० ॥