पृष्ठम्:रामायणमञ्जरी.pdf/६६

पुटमेतत् सुपुष्टितम्
५७
रामायणमञ्जरी।

ततः शनैश्चरैस्तस्या वाक्यैः सा कलुषाभवत् ।
मानसं दूषयत्येव घोरं हि खलवाग्विषम् ॥ ६९१ ॥
कालकूटप्रकारोऽयमपरः खलसंगमः ।
विकारः क्रियते येन क्षिप्रं सत्त्ववतामपि ॥ ६९२ ।।
कैकेयी लोभशङ्कोत्थैः स्पृष्टा किल्बिषशीकरैः ।
किं करोमीति पप्रच्छ मन्थरां शङ्किताशया ॥६९३ ॥
साब्रवीद्देवि याचस्व पत्युः कोपपराङ्मुखी ।
भरतस्याभिषेकं च रामस्य च विवासनम् ॥ ६९४ ॥
चतुर्दश समा रामो वनं यातु पितुर्गिरा ।
सुचिरं बद्धमूलश्च लभतां भरतः श्रियम् ।। ६९५ ॥
पुरा देवासुरयुधि शम्भरेण शतक्रतोः ।
स्वपुरे वैजयन्ताख्ये घोरः सैन्यक्षयः कृतः ॥ ६९६ ॥
राजा दशरथस्तत्र यातः शक्रसहायताम् ।
शस्त्रक्षततनुर्विद्याबलात्संरक्षितस्त्वया ॥ ६९७ ।।
कृतज्ञेन वरौ तेन दत्तौ ते प्रीतिशालिना ।
न्यासीकृतौ त्वया तौ च तस्मिन्नेव निजेच्छया ॥ ६९८ ॥
कुरु प्रणयिनी पत्युस्तूर्णमेव तदर्थनाम् ।
सुतस्त्वेकेन ते राजा रामोऽन्येन वनेचरः ॥ ६९९ ।।
प्रकोपाबद्धमौनायाः सबाष्पायितचक्षुषः ।
करिष्यति न चावज्ञां प्रणयी तव वल्लभः ॥ ७०० ॥
एतदाकर्ण्य कैकेयी भेजे मुखसुखं क्षणात् ।
पश्चात्तापफलं हर्षं गुडदिग्धविषोपमम् ॥ ७०१ ॥
प्रायेण मुग्धहृदयाः शिशवो भूमिपाः स्त्रियः ।
ह्रियन्ते लुब्धकैर्नीचैः कुरङ्गा इव कानने ॥ ७०२ ॥
कैकेय्या ब्राह्मणः पूर्व मूल् बाल्ये विडम्बितः ।
तच्छापादभवत्तस्या मतिः कीर्तिपराङ्मुखी ॥ ७०३ ॥


१. 'युत' शोधितम् ; 'यत' स्यात्.