पृष्ठम्:रामायणमञ्जरी.pdf/६७

पुटमेतत् सुपुष्टितम्
५८
काव्यमाला।

सा मन्थरां परिष्वज्य दत्त्वास्यै हेमकुण्डले ।
मेने मतिमतां श्रेष्ठां बृहस्पतिवधूमिव ॥ ७०४ ॥ .
विरूपमपि सा तस्याः प्रशशंस मुहुर्वपुः ।
निन्द्येन गुणसंपत्तिं पश्यन्ति हि वशीकृताः ॥ ७०५ ॥
सा ययौ तद्गिरा तूर्ण कोपागारं वरार्थिनी ।
सर्वथा खलवाक्येषु स्त्रियो मूर्खाश्च सादराः ॥ ७०६ ॥
वियुक्तमाल्याभरणा विचेष्टन्ती महीलले ।
सा तस्थौ म्लानवसना व्याप्तेवायशसा क्षणात् ॥ ७०७ ॥
इति मन्थरावाक्यम् ॥ १६ ॥
अत्रान्तरे नरपतिर्दयितादर्शनोत्सुकः ।
प्रविश्यान्तःपुरं कान्तां नापश्यच्चारुलोचनाम् ॥ ७०८ ॥
स च्छत्रधारिणीवाचा ज्ञात्वा कोपगृहे स्थिताम् ।
चकितस्तूर्णमभ्येत्य ददर्श त्यक्तभूषणाम् ॥ ७०९ ॥
तां ग्रीष्ममारुतग्रस्तकुसुमामिव मञ्जरीम् ।
दृष्ट्वा न लेभे भूपालभ्रमरः स्रस्तधीर्धृतिम् ॥ ७१० ॥
सापि क्ष्मापालमालोक्य जग्राहाभ्यधिकां रुषम् ।
प्रायः प्रागल्भ्यमायान्ति तरुण्यः स्थविरे वरे ॥ ७११॥
सोऽब्रवीद्देवि कोऽयं ते प्रौढः कोपपरिग्रहः ।
नाभिनन्दति येनेदं भूषणं मामिवाग्रतः ।। ७१२ ॥
प्रिये ब्रूहि प्रवृद्धस्य प्रकोपस्यास्य कारणम् ।
सत्यमात्मापि मे बध्यस्त्वत्कोपे हेतुतां गतः ॥ ७१३ ॥
दयिते मौनमुत्सृज्य प्रसादस्मितपुष्पिता ।
लतेव मधुरालापैः किर कर्णरसायनम् ॥ ७१४ ॥
उच्यतां क्रियते कोऽद्य निवृत्तविभवः क्षणात् ।
धवलोष्णीषहासिन्यास्तूर्णं वा भाजनं श्रियः ।। ७१५ ॥


१. 'प्रकोपः प्रभुतां गतः' शारदा०.