पृष्ठम्:रामायणमञ्जरी.pdf/६८

पुटमेतत् सुपुष्टितम्
५९
रामायणमञ्जरी।

प्रसीद वद किं देवि करवाणि तवेप्सितम् ।
त्रैलोक्यदुर्लभं नास्ति मयि प्रणयशालिनी ॥ ७१६ ॥
इत्युक्ते नरनाथेन कैकेयी प्रत्यभाषत ।
चिन्तासंतप्तनिःश्वासधूसराधरपल्लवा ॥ ७१७ ॥
पुरा मे ब्राह्मणो विद्यां प्रसादाभिमुखो ददौ ।
यया देवासुररणे मया संरक्षितो भवान् ॥ ७१८॥
तत्संतोषाद्वरौ मह्यं प्रवरौ दत्तवानसि ।
यौ मया त्वयि निक्षिप्तौ तावेवाद्य प्रयच्छ मे ॥ ७१९ ॥
इति श्रुत्वैव कैकेय्या सस्मितः सोत्सुको नृपः ।
करेणोन्नम्य वदनं वक्तुं समुपचक्रमे ॥ ७२० ॥
एतावतैव दयिते कोऽयं ते कोपविभ्रमः ।
स्वाधीनौ ते बरौ सुभ्रु कर्तव्यमभिधीयताम् ॥ ७२१ ॥
यदिच्छसि तदाद्यैव ददानि सुभगे तव ।
जीवितेनापरेणेव रामेणापि स्फुटं शपे ॥ ७२२ ॥
इत्युक्ते भूभुजा स्पष्टं कैकेयी कुटिलावदत् ।
राज्ञः सत्यप्रतिज्ञस्य वचः शृण्वन्तु देवताः ॥ ७२३ ॥
वरेणैकेन नृपतेश्चीराजिनजटाधरः ।
चतुर्दश समा रामः प्रयातु विजनं वनम् ॥ ७२४ ॥
अपरेण वरेणाद्य यौवराज्यं ममात्मजः ।
लभतां भरतः श्रीमानित्युक्त्वा विरराम सा ॥ ७२५ ॥
ततो नरपतिर्मूर्ध्नि वज्रेणेव समाहतः ।
किमेतदिति नाज्ञासीच्चक्रारूढ इव क्षणम् ॥ ७२६ ॥
स पपात क्षितितले कृत्तमूल इव द्रुमः ।
अङ्के धृत इवोर्वर्या मूर्छितो वसुधाधिपः ॥ ७२७ ॥
पौरुषप्रतिरोधिन्यस्तर्जन्यः सर्वसंपदाम् ।
सकला विपदस्तत्र प्रभुत्वं यत्र योषिताम् ॥ ७२८ ॥


१. 'शालिनि' स्यात्.