पृष्ठम्:रामायणमञ्जरी.pdf/६९

पुटमेतत् सुपुष्टितम्
६०
काव्यमाला।

फलं व्यसनवृक्षस्य विनाशविषशाखिनः ।
अयशः पथि रूढस्य मनो योषित्सु सादरम् ॥ ७२९ ॥
गण्यन्ते पुरुषास्तावद्यावन्नायान्ति वश्यताम् ।
धैर्यध्वंसपताकासु भ्रूभङ्गाज्ञासु योषिताम् ॥ ७३० ॥
स समाश्चास्य शनकैर्मेने कैकेयजां पुनः ।
लतां मलयजस्येव करालव्यालमालिताम् ॥ ७३१ ॥
तामुवाच रुषाकान्तः श्वसन्नाग इवाहतः।
उल्केयं वदनात्कस्मादकस्मान्निर्गता इव ॥ ७३२ ॥
अहो बत भुजङ्गी त्वं घोरहालाहलेक्षणा ।
सेविता प्रीतिलुब्धेन मुग्धेन सततं मया ॥ ७३३ ॥
रामः शुभ्रैर्गुणगणैः सर्वलोकस्य संमतः ।
पङ्कजिन्या इव शशी कथं ते द्वेष्यतां गतः ।। ७३४ ॥
बत प्रत्यग्रपापेयं मतिस्तव समुद्यता ।
मां शोकव्यालकलिते क्षेप्तुं मोहरसातले ॥ ७३५ ॥
प्रियं सर्वव्यवस्थासु जीवलोकप्रकाशकम् ।
त्यजामि सुकृतावाप्तं जीवितं कथमात्मजम् ॥ ७३६ ॥
गुणाभरणमम्लानयशःपीयूषसागरम् ।
परित्यक्तुं न शक्तोऽस्मि रामं राजीवलोचनम् ॥ ७३७ ।।
रामं त्यजेत्यनुचितं जीवितक्रकचं वचः ।
कथं नाम सहे हेलाक्षतवृत्तगुणं तव ॥ ७३८ ।।
प्रसीद चरणानम्रशिरसः कुरु मे गिरम् ।
पश्य राममवामेन चक्षुषा भरतं यथा ॥ ७३९ ॥
इत्युक्तेऽपि सकृद्भार्या दुर्ग्रहान्न चचाल सा ।
दैवप्रेरितचित्तानां वचोभिः का प्रतिक्रिया ॥ ७४० ॥
साब्रवीत्सत्यसंधस्य कृतज्ञस्य महीपतेः ।
तव दत्तापहरणं जृम्भतामयशश्चिरम् ॥ ७४१ ॥