पृष्ठम्:रामायणमञ्जरी.pdf/७०

पुटमेतत् सुपुष्टितम्
६१
रामायणमञ्जरी।

रथ्यावस्करमार्जन्य इव पङ्ककलङ्किताः ।
असत्यचपला वाचो न भवन्ति भवादृशाम् ॥ ७४२ ॥
पुना राज्योद्धुरां तावत्कौसल्यां न सहे विभो ।
त्वत्तिरस्कारदुःखेऽस्मिन्भेषजं मे विषाशनम् ॥ ७४३ ॥
स्वं दत्तं शिविना मांसमलकेनेक्षणद्वयम् ।
सत्यं सत्यप्रतिज्ञानां नानुतापः प्रतिश्रुते ॥ ७४४ ॥
अहं प्राणपणेनापि त्वत्तः प्राप्य वरद्वयम् ।
रामप्रवासनिःशल्यां करोमि भरतश्रियम् ॥ ७४५ ॥
सर्वथा स्वस्ति यशसे राजन्नित्ययमञ्जलिः ।
कृतो धर्मोऽस्त्वधर्मो वा निश्चयो मम नान्यथा ॥ ७४६ ॥
इत्युक्त्वा साभवत्तप्तनिःश्वासैर्धूसरद्युतिः ।
ब्रह्मशापाग्निधूमेन स्पृष्टेव मलिनानना ॥ ७४७ ॥
विलोक्य निश्चलां राजा प्रियामप्रियभाषिणीम् ।
हा रामेति वदन्साधुः पपात भुवि मूर्छितः ॥ ७४८ ॥
स तामुवाच निःश्वस्य संमोहोपहतप्रभः ।
आकृष्टः सत्यशापेन पुत्रस्नेहेन चाभितः ॥ ७४९ ॥
नूनं भूताभिभूतासि क्षिप्ता कालेन वा मयि ।
कुतोऽन्यथा तवाप्येष सदाचारविपर्ययः ।। ७५० ॥
नृशंसाः पापसंकल्पाः संश्रुतपरिपन्थिनः ।
परप्राणापहारेण वाञ्छन्त्येवात्मनः श्रियम् ।। ७५१ ॥
भक्ताया मम निर्दोषः पुत्रो राज्ञा विवासितः ।
इति ब्रुवाणां कौसल्यां किं वक्ष्यामि गतत्रपः ॥ ७५२ ॥
वृद्धेन रागिणा राज्ञा निरस्तो गुणवान्सुतः ।
इति लोके कथं श्रोष्याम्ययशोवर्धिनीर्गिरम् ॥ ७५३ ॥
नूनं त्वं निर्मिता धात्रा किल्विषैरेव केवलैः ।
तव यन्नास्ति हृदये दारुणे करुणाकणः ॥ ७५४ ॥