पृष्ठम्:रामायणमञ्जरी.pdf/७१

पुटमेतत् सुपुष्टितम्
६२
काव्यमाला।

व्यक्तमन्तर्विषैर्मिथ्यामधुरैः प्रणयैरहम् ।
त्वयोपचरितः पापे येषां पाकोऽयमीदृशः ॥७५५ ॥
अहो बताहमाकृष्टः कान्तारूयेण मृत्युना ।
दुःखहालाहलोग्रेण सत्यशापमहाहिना ॥ ७५६ ॥
धिक्कृता सर्वलोके नु शापपापकलङ्किता ।
अकीर्तिरिव मे मूर्ता बत यातासि शोच्यताम् ॥ ७९७ ॥
याते रामे गते धैर्यं हते मयि भृशं शुचा ।
राज्यविस्मृतवैधव्या भव पूर्णमनोरथा ॥ ७५८ !!
इति प्रलपतस्तस्य नक्षत्राश्रुकणाकुला ।
शशिशुभ्रा ययौ रात्रिः शोकेनेवातिपाण्डुरा ॥ ७५९ ॥
निशेयं क्षीयतां दीर्घा मा च मेऽस्तु दिनोदयः ।
इति शोकाकुलो राजा चिन्तयन्न ययौ धृतिम् ॥ ७६० ॥
इति वरयाचनम् ॥ १७ ॥
अस्मिन्नवसरे रामः सूतमागधबन्दिनाम् ।
शृण्वन्गुणगणोदारा यशःकुसुमिता गिरः ॥ ७६१ ।।
मनःशुद्धिरतो देवं स्मरन्विष्णुं वधूसखः ।
शशीव रोहिणीयोगे विवभौ विमलाम्बरः ॥ ७६२ ॥
रत्नांशुपल्लवोदारश्छत्रचामरपुष्पितः ।
हर्षस्फीतफलो लोके बभूवोत्सवपादपः ॥ ७६३ ॥
सुकल्पिते वसिष्ठाद्यैरभिषेकविधौ क्रमात् ।
सुमन्त्रोऽन्तःपुरद्वारं ययौ तूर्ण महीपतेः ॥ ७६४ ।।
सुखसुप्तं नृपं ज्ञात्वा प्रविश्य निभृतं शनैः
विबुधस्तत्प्रबोधाय मधुरां गिरमादधे ॥ ७६५ ॥
रवेरिवोदयं देव प्रतीक्ष्यन्ते प्रजास्तव ।
राघवस्याभिषेकार्हः पुष्ययोगोऽतिवर्तते ॥ ७६६ ॥


१. 'रभिषेचनिके विधौ' शोधितः पाठः, २. 'पुण्य' शारदा०,