पृष्ठम्:रामायणमञ्जरी.pdf/७२

पुटमेतत् सुपुष्टितम्
६३
रामायणमञ्जरी।

मूर्ध्नि श्रीमानयं धत्ते भास्वानुदयभूभृतः ।
पूर्वदिक्कामिनीन्यस्तहैममङ्गलकुम्भताम् ॥ ७६७ ॥
एताः कुङ्कुमपङ्केन समुत्सृष्टा इवाखिलाः ।
सूर्योदयोत्सवे देव भान्ति पीताम्बरा दिशः ॥ ७६८ ॥
उत्तिष्ठ पृथिवीपाल सत्पुत्रमणिदर्पणे ।
संक्रान्तां सुकृतोदारां पश्य कीयुज्वलां श्रियम् ॥ ७६९ ॥
सज्जोऽयं विपुलारम्भः संभारो मङ्गलोचितः ।
त्वद्दर्शनसुधासारप्रतीक्षान्तरितोत्सवः ॥ ७७० ॥
प्रणतानन्तसामन्तमौलिरत्नारुणप्रभाम् ।
सभां संभावय विभो स्वप्रभामिव भास्करः ॥ ७७१ ॥
इति वादिनमज्ञातवृत्तं वृत्तपरिच्युता ।
शनैरुवाच कैकेयी सुमन्त्रं गाढमत्सरा ॥ ७७२ ॥
पुत्रोत्सवनवोत्कण्ठहर्षावाप्तप्रजागरः ।
अयं सत्यधनो राजा नाद्यापि प्रतिबुध्यते ॥ ७७३ ।।
गच्छ राममिहैवास्य पुत्रं संमतमानय ।
उक्त्वेति देवी सासूयं क्षितिपालमुदैक्षत ॥ ७७४ ॥
विभ्रष्टविद्यापतितो विद्याधर इवाम्बरात् ।
विवर्णवदनो राजा शशीव दिनधूसरः ।। ७७५ ।।
उवाच निःश्वसन्दीर्घ जायासमययन्त्रितः ।
करीन्द्रः करिणीयुक्त इव पाशवशीकृतः ॥ ७७६ ॥
किं नाम सुप्तं पतितं सुमन्त्र समुदीक्षसे ।
राम सूर्योदये यस्य रात्रिरक्षयतां गता ॥ ७७७ ॥
मां सत्यसमयाख्येन कालपाशेन वेष्टितम् ।
गृहीतं पश्य बलिना जायारूपेण लक्ष्मणा ॥ ७७८ ॥
श्रुत्वेति राजवचनं शरेणेव विदारितः ।
अपहृत्य सुमन्त्रोऽभूत्क्षणमुद्भ्रान्तमानसः ॥ ७७९ ॥


१. 'सत्य' शोधितः पाठः.